पूर्वम्: ४।१।८९
अनन्तरम्: ४।१।९१
 
सूत्रम्
यूनि लुक्॥ ४।१।९०
काशिका-वृत्तिः
यूनि लुक् ४।१।९०

प्राग् दीव्यतः इति वर्तते, अचि च। प्राग्दीव्यतीये अजादौ प्रत्यये विवक्षिते बुद्धिस्थे ऽनुत्पन्न एव युवप्रत्ययस्य लुग् भवति। तस्मन् निवृत्ते सति यो यतः प्राप्नोति स ततो भवति। फाण्टाहृतस्य अपत्यं फाण्टाहृतिः। तस्य अपत्यं युवा, फाण्टाहृतिमिमताभ्यां णफिञौ ४।१।१५०, फाण्टागृतः। तस्य छाऽत्राः इति विवक्षिते ऽर्थे बुद्धिस्थे युवप्रत्यय्स्य लुग् भवति। तस्मिन् निवृत्ते इञन्तं प्रकृतिरूपं सम्पन्नम्। तस्मातिञश्च ४।२।१११ इत्यण् भवति, फाण्टाहृताः। भागवित्तस्य अपत्यं भागवित्तिः। तस्य अपत्यं युवा, वृद्धाट् ठक् सौवीरेषु बहुलम् ४।१।१४८ इति ठक्, भागवित्तिकः। तस्य छात्राः, पूर्ववद् युवप्रत्यये निवृत्ते, इञश्च ४।२।१११ इत्यण्, भागवित्ताः। तिकस्य अपत्यं, तिकादिभ्यः फिञ् ४।१।१५४, तैकायनिः। तस्य अपत्यं युवा, फेश् छ च ४।१।१४९ इति छः, तैकायनीयः। तस्य छात्रः, युवप्रत्यये निवृत्ते वृद्धाच् छः ४।२।११३, तैकायनीयाः। कपिञ्जलादस्य अपत्यं कापिञ्जलादिः। तस्य अपत्यं युवा, कुर्वादिभ्यो ण्यः ४।१।१५१, कापिञ्जलाद्यः। तस्य छात्राः, ण्ये निवृत्ते इञश्च ४।२।१११ इत्यण्, कापिञ्जलादाः। ग्लुचुकस्य अपत्यं, प्राचाम् अवृद्धात् फिन् बहुलम् ४।१।१६० इति ग्लुचुकायनिः। तस्य अपत्यं युवा, प्राग्दीव्यतो ऽण् ४।१।८३, ग्लौचुकायनः। तस्य छात्राः, युवप्रत्यये निवृत्ते स एव अण्, ग्लौचुकायनाः। अचि इत्येव, फाण्टाहृतरूप्यम्। फाण्टाहृतमयम्। प्राग्दीव्यतः इत्येव, भागवित्तिकाय हितं भागवित्तिकीयम्।
न्यासः
यूनि लुक्। , ४।१।९०

"यूनि" इति। "व्यत्ययो बहुलम्" ३।१।८५ इति षष्ठ()र्थे सप्तमी। अत एव वृत्तावाह--"युवप्रत्ययस्य" इति। अजादौ प्रत्यये विवक्षिते बुद्धिस्य इत्यादिनाऽचीति विषयसप्तमीत्वं दर्शयति। यद्येषां परसप्तमी स्यात्, यत्रापि च्छप्रत्ययो नेष्यते तत्रापि स्यात्। युवप्रत्ययान्तस्य बुद्धत्वादित्यभिप्रायः। "फाण्टाह्मतरूप्यम्, फाण्टाह्मतमयम्" इति। यद्यत्र लुक् स्यात्, फाण्टाह्मतरूप्यं फाण्टाह्मतमयमिति न स्यात्। "भागवित्तिकीयम्" इति। प्राक्क्रीतीयच्छः ५।१।१ पू()ववत्॥
बाल-मनोरमा
यूनि लुक् १०६६, ४।१।९०

यूनि लुक्। प्राग्दीव्यत इत्यनुवृत्तेः प्रत्ययाधिकाराच्च "प्राग्दीव्यतीये प्रत्यये" इति लभ्यते। अचीति प्रत्ययविशेषणं, तदादिविधिः। विषयसप्तम्येषा, नतु परसप्तमी। तदाह--अजादौ प्राग्दीव्यतीये विवक्षिते इति। युवप्रत्ययस्येति। युवार्थकप्रत्ययस्येत्यर्थः। लुकः प्रत्ययाऽदर्शनत्वात्प्रत्ययस्येति लभ्यत इति भावः। ननु ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिरिति कथम्, "अत इ"ञितीञः प्राप्तेरित्यत आह--वक्ष्यमाण इति। "प्राचामवृद्धात्फिन्बहुल"मित्यनेने"ति शेषः। आयन्नादेशे ग्लुचुकायनिरिति रूपमिति भावः। तत इति। ग्लुचुकायनेरपत्यार्थे "तस्यापत्य"मित्यणि आदिवृद्धौ "यस्येति चे"ति लोपे "ग्लौचुकायन" इति रूपमित्यर्थः। तस्येति। ग्लौचुकायनस्य छात्र इत्यर्थे तस्येदमित्यणि युवापत्याऽणो लुकि "ग्लौचुकायन" इत्येव रूपमित्यर्थः। ननु युवापत्याऽणः "यस्येति चे"ति लोपेनैव छात्रार्थे ग्लौचुकायन इति रूपसिद्धेस्तस्य लुग्विधिरनर्थक इत्यत आह--अणो लुकीति। छात्रार्थकछप्रवृत्तेः प्रागेव युवप्रत्ययस्याऽणो लुकि आदिवृद्धेर्निवृत्तौ ग्लुचुकायनिशब्दस्य वृद्धत्वाऽभावाच्छो न भवति। युवप्रत्ययस्य लुगभावे तु वृद्धत्वाच्छः स्यात्। अतदर्थमेव युवप्रत्ययस्य लुग्विधानमित्यर्थः। स्थितश्चातुर्थिको युवप्रत्ययलुक्। तत्प्रसङ्गाद्द्वैतीयीको युवप्रत्ययलुगनुक्रम्यते-।

तत्त्व-बोधिनी
यूनि लुक् ८९३, ४।१।९०

यूनि लुक्। प्राग्दीव्यतीय इति वर्तते, अचीति च, प्रत्ययाधिकाराच्च प्रत्यय इति लभ्यते। तदेतदाह---प्राग्दीब्यतीयेऽजादौ प्रत्यय इति। "प्रत्ययस्य लु"गिति संज्ञाकरणाल्लब्धो यः प्रत्ययः, सः "यूनी"त्यनेन विशेष्यते। तथा च "यूनियः प्रत्ययस्तस्य लु"गित्यर्थस्तदाह।