पूर्वम्: ४।१।९१
अनन्तरम्: ४।१।९३
 
प्रथमावृत्तिः

सूत्रम्॥ तस्यापत्यम्॥ ४।१।९२

पदच्छेदः॥ तस्य ६।१ १७६ अपत्यम् १।१ १७६ समर्थानाम् ? प्रथआत् ? वा ? ङ्याप्प्रातिपदिकात् ? तद्धिताः ? प्रत्ययः ? परश्च ?

अर्थः॥

तस्य=षष्ठीसमर्थात् प्रातिपदिकात् अपत्यम् इत्येतस्मिन् अर्थे यथाविहितं प्रत्ययः भवति।

उदाहरणम्॥

औपगवः। अश्वपतेः अपत्यम् आश्वपतः, दैत्यः, औत्सः, स्तैणः, पौस्नः॥
काशिका-वृत्तिः
तस्य अपत्यम् ४।१।९२

अर्थनिर्देशो ऽयं, पूर्वैरुत्तरैश्च प्रत्ययैरभिसम्बध्यते। तस्य इति षष्ठीसमर्थातपत्यम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। प्रकृत्यर्थविशिष्टः षष्ठ्यर्थो ऽपत्यम् आत्रञ्चेह गृह्यते। लिङ्गवचनादिकमन्यत् सर्वमविवक्षितम्। उपगोरपत्यम् औपगवः। आश्वपतः। दैत्यः। औत्सः। स्त्रैणः। पौंस्नः। तस्य इदम् अपत्ये ऽपि बाधनार्थं कृतं भवेत्। उत्सर्गः शेष एव असौ वृद्धान्यस्य प्रयोजनम्। भानोरपत्यम् भानवः। श्यामगवः।
लघु-सिद्धान्त-कौमुदी
तस्यापत्यम् १००७, ४।१।९२

षष्ठ्यन्तात्कृतसन्धेः समर्थादपत्येर्ऽथे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः॥
लघु-सिद्धान्त-कौमुदी
शेषे १०७१, ४।१।९२

अपत्यादिचतुरर्थ्यन्तादन्योर्ऽथः शेषस्तत्राणादयः स्युः। चक्षुषा गृह्यते चाक्षुषं रूपम्। श्रावणः शब्दः। औपनिषदः पुरुषः। दृषदि पिष्टा दार्षदाः सक्तवः। चतुर्भिरुह्यं चातुरं शकटम्। चतुर्दश्यां दृश्यते चातुर्दशं रक्षः। []तस्य विकारः’ इत्यतः प्राक् शेषाधिकारः॥
न्यासः
तस्यापत्यम्। , ४।१।९२

"पूर्वैरुत्तरैश्च प्रत्ययैरभिसंबध्यते" इति। तत्र पूर्वैस्तावदणादिभिः सम्बध्यते; असंयुक्तविधानात्। अस्य यदि पूर्वैरभिसम्बन्धो न भवेत् "तस्यापत्यमत इञ्" इत्येकयोगमेव कुर्यात्। यतस्तु "अत इञ्" ४।१।९५ इत्यनेन "तस्यापत्यम्" ४।१।९२ इत्येतदसंयुक्तं करोति, ततोऽसंयुक्तविधानात्पूर्वार्थमेतद्विज्ञायत इत्येवं तावत्पूर्वैरभिसम्बध्यते। उत्तरैरप्यभिसम्बध्यते; तेष्वस्य स्वरितत्वात्। "तस्य" इति। पुंल्लिङ्गेन निर्देशः क्रियते, एकवचनेन च। तेन पुंल्लिङ्गादेवोत्पत्तिः स्यात्, एकवचनान्ताच्च। स्त्रीलिङ्गान्नपुंसकाच्च न स्यात्-- देवदत्ताया अपत्यम्, कुलस्यापत्यमेवमादौ न स्यात्। द्विवचनबहुवचनान्ताच्च-- द्वयोर्मात्रोरपत्यम्, तिसृणां मातृणामपत्येवमादौ न स्यात्। अथ नपुंसकलिङ्गेनायं निर्देशः? स्त्रीलिङ्गात् पुंल्लिङ्गाच्च न स्यात्। अपत्यमित्येकवचनेऽत्र निर्देशः क्रियते, तेनैकस्मिन्नेवापत्ये स्यात्, न द्वयोर्नापि बहुषु-- उपगोरपत्ये औपगवौ; उपगोरपत्यान्यौपगवा इति। एतस्मिन् पूर्वपक्ष इदमाह-- "प्रकृत्यर्तविशिष्टः" इत्यादि। "गृह्रते" इति वक्ष्यमाणेन सम्बन्धः। प्रकृत्यर्थ उपगवादिशब्दानामर्थः,तेन विशिष्टः षष्ठ()र्थोऽपत्यापत्यवत्सम्बन्धः। ननु च तस्यात्र तच्छब्दस्य सामान्यवाचिनो ग्रहणम्, तस्य कृत उपगवादिरर्थविशेषः, येन षष्ठ()र्थो विशिष्यते? तस्येत्यस्य विशेषोपलक्षणत्वाददोषाः। विशेषोपलक्षणत्वं चास्य प्रागेव प्रतिपादितम्। तस्माद्विशेष एवोपग्वादिः प्रकृत्यर्थः। "अपत्यमात्रञ्च" इति। मात्रशब्दोऽधिकस्य लिङ्गादेव्र्यवच्छेदाय। "लिङ्गवचनादिकम्" इति। आदिशब्देन कालस्य ग्रहणम्। वत्र्तमानेन हि कालेनायं निर्देशः क्रियते। यथोक्तम्-- "यत्रापि साक्षादन्यक्रियापदं न श्रूयते तत्राप्यस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति गम्यते" इति। तत्र वत्र्तमानकालविवक्षायां कालान्तरे न स्यात्। किं पुनः कारणं लिङ्गवचनादि न विवक्ष्यते? तस्याप्रधान्यात्। अवश्यं हि येन केनचिल्लिङ्गादिना निर्देशः कत्र्तव्य इति, नान्तरीयकत्वात्। तस्येहोपादानम्, यथा-- धान्यार्थिनः पलालादेरप्रधानस्यापि। "तस्येदम्" इत्यादि। "तस्येदम्" ४।३।१२० इत्येतत्सूत्रमपत्यार्थेऽपि वत्र्तते। यो ह्रुपगोरपत्यमुपगोरसावयमिति शक्यते व्यपदेष्टुम्। तस्येदमित्यस्य विशेषा ह्रेते-- अपत्यम्, समूहः, निवासः, विकार इति। ततश्च "तस्येदम्" ४।३।१२० इत्यनेनैवापत्यार्थेऽप्यण् सिद्धः, तत् किमर्थं तस्यापत्यमित्येतत् सूत्रं कृतम्? "बाधनार्थम् कृतं भवेत्" इति। "तस्येदम्" ४।३।१२० इत्यनेन विधीयमानस्याणो यो बाधकः "वृद्धाच्छः" ४।२।११३ इति च्छः प्राप्नोति, तद्बाधनार्थमिदं कृतम्। एतत्सूत्रविहितेनाणा छप्रत्ययस्य बाधनं यथा स्यात्। कथं पुनरशैषिकः शैषिकं बाधते? अपत्यादिभ्यश्चतुरर्थीपर्यन्तेभ्योऽन्योषडर्थः शैषिकाणां विषयः। अयं चापत्याच्छविषये नास्त्येव। तदसन्नयं कथं छप्रत्ययं बाधिष्यत इत्यत आह-- "उत्सर्गः शेष एवासौ" इति। असत्यस्मिन् योग इत्यभिप्रायः। असावित्यनेन प्रकृतत्वात् तस्यापत्यमित्येषोऽर्थः प्रत्यवमृश्यते। उत्सर्ग उत्पन्नेनाप्यणा स एवार्थ उत्सर्गसाहचर्यादुच्यते। उत्सर्गसाहचर्यन्तु तस्य तत्रोत्सर्गस्याणादेर्विधानात्। इहापि क्रियमाणे "तस्यापत्यम्" ४।१।९२ इत्येतस्मिन् योगे "तस्येदम्" ४।३।१२० इत्येतस्मिन्ननुप्रवेशाद्यथान्यस्तद्विशेषः शेषो भवति तथाऽपत्यार्थोऽपि। अस्ति तस्याप्युपयुक्तापेक्षमन्यत्वम्, "चतुरर्थीपर्यन्तेष्वनन्तर्भावात्। ततश्च शेषत्वादपत्यार्थे च्छप्रत्ययः प्राप्नोति। अ()स्मस्तु योगे "तस्येदम्" ४।३।१२० इत्यत्र शेषे नानुप्रविशति; उपयुक्तत्वात्। ततश्चाशेषत्वादपत्ये छप्रत्ययस्य छप्रत्ययस्य प्राप्तिर्नास्त्येव। सैवाप्राप्तिर्बाधनशब्देनोक्ता। अथ बाधनार्थस्यास्य किं प्रयोजनमित्याह-- "वृद्धान्यस्य प्रयोजनम्" इति। वृद्धानि प्रातिपदिकान्यस्य योगस्य प्रयोजनम्। भानोरपत्यं भानवः, श्यामगोरपत्यं श्यामगव इत्यत्राण् सिद्धो भवति। असति त्वस्मिन् योकेऽपत्यार्थः पूर्वोक्तरीत्या शेषः स्यात्। ततश्च तत्र वृद्धेभ्यचः "वृद्धाच्छः" ४।२।११३ प्रसज्येत॥
बाल-मनोरमा
तस्याऽपत्यम् १०७१, ४।१।९२

तस्यापत्यं। तद्धिता इति, प्रत्ययः, परश्चेति चाधिकृतम्। तच्छब्दः सर्वनामतया बुद्धिस्थपरामर्शित्वादुपग्वादिसर्वविशेषबोधकः। तस्य उपग्वादेरपत्यमित्यर्थे तद्धिताः प्रत्ययाः परे भवन्तीति लभ्यते। "कस्मात्परे प्रत्यया भवन्तीत्याकाङ्क्षायां "समर्थानां प्रथमाद्वे"त्यधिकारात्प्रथमोच्चारितात्समर्थात्तच्छब्दलब्धोपग्वादेरिति लभ्यते। प्रातिपदिकादित्यधिकृतम्। "घकालतनेषु कालनाम्नः" इति तरप्तमप्तनेषु तद्धितेषु परतः सप्तम्या अलुग्विधानात्सुपस्तद्धितोत्पत्तज्र्ञापितत्वात्सुप्शिरस्कात्प्रातिपदिकादिति लभ्यते। सुप् चेह तस्येति प्रथमोच्चारिति पदे उपस्थितत्वात्षष्ठ()एव गृह्रत। ततश्च षष्ठ()न्तादिति फलति। "सामथ्र्यं कृतसंधिकार्यत्व"मित्युक्तमेव। तदाह--षष्ठ()न्तात्कृतसन्धेरिति। "समर्थः पदविधि"रिति परिभाषया लब्धमाह--समर्थादिति। विशिष्टैकार्थप्रतिपादकादित्यर्थः। सुबन्तात्तद्धितोत्पत्त्या तद्धितविधीनांपदविधित्वादिति भावः। उक्ता इति। "प्राग्दीव्यतोऽ"णित्याद्या औत्सर्गिका इत्यर्थः। वक्ष्यमाणश्चेति। "अत इ"ञित्याद्या वैशेषिका इत्यर्थः। वा स्युरिति। "समर्थानां प्रथमाद्वे"त्यधिकृतत्वादिति भावः। "अपत्यं पौत्रप्रभृति गोत्र"मित्युत्तरसूत्रव्याख्यावसरेऽपत्यशब्दो व्याख्यास्यते। औपगव इति। उपगोरणि आदिवृद्धिः। ओर्गुणः। अवादेशः। अत्र प्रकृत्यैव उपगोर्लाभादपत्यमेव प्रत्ययार्थ इति स्थितिः। ननु उपगु अ इति स्थिते ओर्गुणात्परत्वात् "अचो ञ्णिती"ति वृद्धिः स्यात्, ओर्गुणस्य "पशव्य" इत्यादौ चरितार्थत्वात्। कृते च गुणे अवादेशे सति "अत उपधायाः इति बृद्धिर्दुर्निवारा। त्वष्टुरपत्यं त्वाष्ट्रः, मघवतोऽपत्यं माघवत इत्यादौ गुणाऽप्रसक्त्या अन्त्योपधावृद्ध्योर्निर्बाधत्वाच्च। नच परत्वादादिवृद्धौ अन्त्योपधावृद्धी बाध्येते इति वाच्यं, विप्रतिषेधे हि परस्य पूर्वबाधकता। नचेह विप्रतिषेधोऽस्ति, देशभेदेनोभयसंभवात्। नाप्यन्त्योपधावृद्ध्योरपवाद आदिवृद्धिरिति वक्तुं शक्यं सुश्रुतोऽपत्यं सौश्रुत इत्यादौ अन्त्योपधावृद्ध्योरप्राप्तयोरप्यादिवृद्धे प्रवृत्तेः। तस्मादादिवृद्धिस्थलेऽन्त्योपधावृद्धी स्यातामित्यत आह--आदिवृद्धिरिति। "अचो ञ्णिती"त्यन्त्यवृद्धिम्, "अत उपधायाः" इत्युपधावृद्धिः, पुष्करसच्छब्दस्य अनुशतिकादौ पाठात्। तत्र यद्यादिवृद्धिरन्त्योपधावृद्धी न बाधेत, तदा आदिवृद्ध्या उपधावृद्ध्या च पौष्करसादेः सिद्धत्वादनुशतिकादौ पुष्करसच्छब्दपाठोऽनर्थकः स्यात्। अतस्तक्रकौण्डिन्यन्यायात्सत्यपि सम्भवे बाधनं भवतीति विज्ञायत इति भाष्ये स्पष्टम्।

तस्येदमित्यपत्येऽपीत्यादि। श्लोकवार्तिकमिदम्। तत्र प्रथमचरणस्यायमर्थः--तस्येदमिति विहितोऽण् अपत्येऽर्थेऽपि भवति, इदमर्थे तस्याप्यन्तर्भावात्। अतस्तस्यापत्यमित्यण्विधानं व्यर्थमित्याक्षेपः। नच "अत इ"ञित्याद्युत्तरसूत्रार्थं "तस्यापत्य"मित्यावश्यकमिति वाच्यम्, एवं हि सति "तस्यापत्यमत इ" ञित्येकमेव सूत्रमस्तु। तथा च "तस्यापत्य"मिति पृथक्सूत्रकरणं व्यर्थमित्याक्षेपः पर्यवस्यति।

अत्र समाधत्ते--बाधनार्थं कृतं भवेदिति। "तस्येद"मित्यणं बाधित्वा "वृद्धाच्छः इति छोऽपत्ये प्राप्तः, तद्वाधनार्थं "तस्यापत्य"मिति पृथक्सूत्रं कृतमित्यर्थः। ननु "वृद्धाच्छः" इति सूत्रं शेषाधिकारस्थम्, अपत्यादिचतुथ्र्यन्तेभ्योऽन्यः शेषः, तथाच अपत्यार्थस्य शेषाधिकारस्थत्वाऽभावात्, तस्मात्तत्र छप्रत्ययस्याऽप्रसक्तेस्तद्बाधनार्थत्वं "तस्यापत्य"मित्यस्य कथमित्यत आह--उत्सर्गः शेष एवासाविति। उत्सृज्यते अदन्त-बाह्वादिप्रकृतिभ्यो इत्युत्सर्गः। कर्मणि घञ्। अदन्त-बाह्वादिभिन्नप्रकृतिसंबद्धोऽपत्यार्थोऽसौ शेषो भवत्येवेत्यर्थः। आक्षेप्तुर्हि"तस्याप्तयमत इ"ञित्येकसूत्रमभिमतम्। विनियुक्तादन्यः शेषः। अदन्त-बाह्वादिप्रकृतिसंयुक्ताऽपत्यार्थ एव विनियुक्तो नतु तद्भिन्नप्रकृतिसंयुक्तापत्यार्थोऽपि। ततस्च तस्य शेषत्वात्तस्मिन्नपत्ये छस्य प्रसक्तत्वात्तद्बाधनार्थं "तस्यापत्य"मिति पृथक्सूत्रम्। सति चास्मिन् पृथक्सूत्रे प्रकृतिसामान्यसंयुक्तापत्यार्थस्योपयुक्तत्वादशेषत्वाच्छस्य न प्राप्तिरित्यप्राप्तिसंपादनद्वारा छबाधकत्वं "तस्यापत्य"मिति पृथक्सूत्रस्य सिद्धम्। अयमप्राप्तबाध इत्युच्यते। नन्वेवमपि उपगोरपत्यमित्यत्र उपगोरवृद्धत्वाच्छस्य नैव प्रसक्तिरिति किं पृथक्सूत्रेणेत्यत आह--वृद्धान्यस्य प्रयोजनमिति। भानोरपत्यं भानव इत्यादौ यानि भान्वादिप्रातिपदिकानि वृद्धानि, यानि उपग्वादिप्रातिपदिकानि नामधेयत्वाद्वृद्धानि, तेभ्यश्छप्रत्ययबाधनार्थं "तस्यापत्य"मिति पृथक्सूत्रमित्यर्थः। ननु "तस्येद"मित्यणि इदन्त्वेन बोधः, "तस्यापत्य"मित्यणि त्वपत्यत्वेन बोध इति शाब्दबोधे वैलक्षण्यसत्त्वात् "तस्येदमित्यपत्येऽपि" इत्याक्षेप एवाऽयमनुपपन्न इति चेन्न, एतद्वार्तिकभाष्यप्रामाण्येन "तस्येद"मितीदंशब्देन अपत्यस्य इदंत्वेन ग्रहणाऽभावविज्ञानात्। "प्रदीयतां दाशरथाय मैथिली"ति त्वार्षत्वान्न दुष्यतीत्यास्तां तावत्। कृतसन्धेः किमिति। "समर्थानां प्रथमाद्वे"त्यधिकारसूत्रस्थसमर्थग्रहणलब्धं कृतसन्धेरित्येतत्किमर्थमिति प्रश्नः। सौत्थितिरिति। सु=शोभन उत्थितः सूत्थितः। प्रादिसमासे सवर्णदीर्घः। सूत्थितस्यापत्यं सौत्थितिः। अत इञ्, सुब्लुक्, आदिवृद्धिः, "यस्येति चे"त्यकारलोपः। "कृतसंधे"रित्यभावे तु सु-उत्थितैत्यस्यामेव दशायां सवर्णदीर्घात्परत्वादादिवृद्धौ कृतायामावादेशे सावुत्थितिरिति स्यादिति भावः। नन्वन्तरङ्गत्वात्सवर्णदीर्घे कृते तदुत्तरमेव इञ्()प्रत्यय उचितः, परादन्तरङ्गस्य बलवत्त्वात्। ततश्च सन्धेः प्राक् तद्धितोत्पत्तेरप्रसक्तेः कृतसन्धेरिति व्यर्थमेवेत्यत आह-अकृतेति। अन्तरङ्गपरिभाषाया अप्यपवादभूतया अक-तव्यूहपरिभाषया सन्धेः प्रागेव प्रत्ययः स्यात्। ततश्च आदिवृद्ध्यपोक्षया अन्तरङ्गोऽपि सवर्णदीर्घोऽकृतव्यूहपरिभाषया आदिवृद्धेः प्राक् न प्रवर्तते। एवञ्च सवर्णदीर्घात्प्रागेवादिवृद्धौ आवादेशे सावुत्थितिरिति स्यादित्यर्थः। नच इञि सति कृते सवर्णदीर्घे ऊकारस्य जायमानया वृद्ध्यासवर्णदीर्घंनिमित्तस्य कस्यचिद्विनाशाऽभावादकृतव्यूहपरिभाषायाः कथमिह प्रवृत्तिरिति वाच्यं, "यदि सवर्णदीर्घो न स्यात्तदा सु-उत्थित इत्यवस्थायां सकारादुकारस्य वृद्ध्या औकारे सति सवर्णदीर्घनिमित्तस्य अको विनाशः स्या"दिति संभावनयाऽकृतव्यूहपरिभाषायाः प्रवृत्तेरिति कथञ्चिद्योज्यम्। वस्तुतस्तु अकृतव्यूहपरिभाषा नास्त्येव , भाष्ये क्वाप्यव्यवह्मतत्वात्, प्रत्युत भाष्यविरुद्धत्वाच्च। "विप्रतिषेधे परं कार्य"मिति सूत्रभाष्ये हि "परादन्तरङ्गं बलीयः-इत्युक्त्वा सोत्थितिरित्यत्र परामप्यादिवृदिं()ध बाधित्वा अन्तरङ्ग एक#आदेश इत्युक्तम्। पदस्य विभज्यान्वाख्याने-सु उत्थित इति स्थिते परत्वाद्वृद्धिः प्राप्ता। अन्तरङ्गत्वादेकादेश इति कैयटः। अकृतव्यूहपरिभाषासत्त्वे तदसङ्गतिः स्पष्टैव। "सेदुष" इत्यादावकृतव्यूहपरिभाषाफलस्यान्यथासिद्धिस्तु तत्र तत्र प्रपञ्चितैवेत्यास्तां तावत्। विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः।

वस्त्रमुपगोरपत्यं चैत्रस्येति। अत्र उपगुशब्दादपत्ये अण्न भवति, उपगोर्वस्त्रेणैवान्वयात्। यद्यपि तत्संबन्ध्येऽपत्ये प्रत्ययविधानादिह च अपत्यस्य तच्छब्दवाच्योपगुसंबन्धाऽभावादेव अत्र प्रत्ययस्य न प्रसक्तिस्तथापि ऋद्धस्य औपगवमित्यादिवारणाय सामथ्र्यमेकार्थीभावलक्षणमाश्रयणीयमिति भावः। अपत्यवाचकादिति। उपगुरपत्यमस्य देवदत्तप्त्येत्यर्थे औपगवो देवदत्त इति माभूदित्यर्थः। "प्रथमा"दित्युक्तौ तु "तस्यापत्य"मिति सूत्रे षष्ठ()न्तस्यैव प्रथमोच्चारितत्वादुपगुरिति प्रथमान्तान्न भवतीत्यर्थः। वाग्रहणाद्वाक्यमपीति। वाग्रहणाऽभावे हि तद्धितस्य नित्यत्वादुवगोरपत्यमिति वाक्यं न स्यादिति भावः। ननु उपग्वपत्यमिति कथं षष्ठीसमासः, तद्धितानां समासापवादत्वात्। नच तद्धितानां पाक्षिकत्वात्तदभावपक्षे षष्ठीसमासो निर्बाध इति वाच्यम्, "अपवादेन मुक्ते उत्सर्गो न प्रवर्तते" इति "पारे मध्ये षष्ठ()आ वे"ति वाग्रहणेन ज्ञापितत्वादित्यत आह--देवयज्ञीति सूत्रादिति। जातित्वादिति। अपत्यार्थंकाऽणन्तस्य औपगवशब्दस्य "गोत्र च चरणैः सह" इति जातित्वान्ङीषित्यर्थः। आ()आपत इति। अ()आपतेरपत्यमिति विग्रहः। पत्युत्तरपदलक्षणं ण्यं बाधित्वा"अ()आपत्यादिभ्यश्चे"त्यणिति भावः। दैत्य इति। दितेरपत्यमिति विग्रहः। "दित्यदिती"ति ण्योऽणपवादः। औत्स इति। उत्सः कश्चित्, तस्यापत्यमिति विग्रहः। "उत्सादिभ्योऽ"ञित्यञ् इञाद्यपवादः। स्वरे विशेषः। स्त्रैणः। पौंस्न इति। स्त्रिया अपत्यं, पुंसो।ञपत्यमिति विग्रहः। "स्त्रीपुसाभ्या"मिति नञ्स्नञौ। अणोऽपवादः।

तत्त्व-बोधिनी
तस्याऽपत्यम् ८९७, ४।१।९२

तस्यपत्यम्। "तस्ये ति न स्वरूपग्रहणं, किं तु षष्ठ()न्तमात्रोपलक्षणमित्याशयेनाह--षष्ठ()न्तादिति। पञ्चम्यर्थोऽध्याहारलभ्यः। अनुकरणात्पञ्चम्याः सौत्रो लुग्वा। उक्ता इति। अण् ण्यादय उक्ताः। वक्ष्यमाणा इति। इञादयः। ननु "उपगु--अ" इति स्थिते ओर्गुणात्परत्वात् "अचोऽञ्णिती"ति वृद्ध्या भाव्यं। घुणस्तु पिचव्यादौ सावकाशः। कृते च गुणे अवादेसे च "अत उपधायाः"इति वृद्द्या भाव्यमत आह--आदिवृद्धिरिति। परत्वादिति भावः। अन्त्योपधावृद्द्योरवकाशः---गौः, पाचकः। आदिवृद्धेस्तु--सुश्रुत्। सौश्रुत्। सौश्रुतः। "त्वाष्ट्रो" "जागतः"इत्यादौ तूभयप्रसङ्गे परत्वादादिवृद्धिरेव भवति। लक्ष्यानुरोधेनात्र सकृद्गतिन्यायस्यैवाश्रयणात्। अनुशतिकादिषु पुष्परसच्छब्दपाठो ह्रत्र लिङ्गम्। अन्यथा आद्युपधावृद्धिभ्यां पौष्करसादेः सिद्धत्वात्तेषु पाठोऽनर्थकः स्यात्। न च "पुष्करसदा चरती"--त्यर्थे ठकि "पौष्करसादिक"इत्येतदर्थमनुशतिकादिपाठ आवश्यकः, ञिति णित्येव उपधावृद्धिस्वीकारान्न तु कितीति वाच्यम्, अनभिधानाठ्ठगत्र न भवतीत्यादिसमाधानस्य कैयटे स्थितत्वात्। एतेन भिन्नविषये बाध्यबाधकभावो नोपपद्यत इति शङ्का निरस्ता। उक्तज्ञापकेन "सत्यपि संभवे बाधनं भवती"

त्यवश्याश्रयणीयत्वात्। नन्वेवमपि "जगतः"इत्यादावुपधावृद्धिर्बाध्यताम्, "औपगव"इत्यत्र त्वादिवृद्धिप्रवृत्तिवेलायामुपधावृद्धेरप्राप्त्या कथं बाधः स्यादिति चेदत्राहुः---"जागत"इत्यादावुपधावृद्धेर्बाध्यत्वे निर्णीते, क्वचित्कालान्तरप्राप्ताया अपि तस्या बाध्यत्वौचित्यादिति। स्यादेतत्---यत्रादिबृद्धिर्न जाता तत्राऽन्त्योपधालक्षणा वृद्धिः कस्मान्न भवति। व्यसोर्भावो वैयसवम्। "इगन्ताच्चेत्यण्। व्यापदि भवं वैयापदम्। "तत्र भवः"इत्यण्। अत्र कैयटः---अत्राप्यैचौ परत्वात्तद्बाधकाविति सर्वेष्टसिद्धिरिति। शाब्दबोधे वैलक्षण्यसत्त्वेऽपि तदनादरेणाक्षिपति।

तस्येदमित्यपत्येऽपि बाधनार्थ कृतं भवेत्। तस्येदमित्यपत्येऽपीति। इदमर्थे अपत्यसमूहविकारादीनामन्तर्भावादपत्येऽपि "तस्येद"मित्यण् प्रवर्तत इति किमनेन "तस्यापत्य"मिति सूत्रेणेत्यर्थः। यद्यपि "अत इञि"त्याद्यर्थं "तस्यापत्य"मित्येतद्वक्तब्यन्तथापि योगविभागः किमर्थ इत्याक्षेपोऽत्र बोध्यः। समाधत्ते---बाधनार्थमिति। "तस्येद"मित्यस्य यद्बाधकं "वृद्धाच्छः [इति], तद्बाधनार्थं पृथक् सूत्रं कृतं भवेदित्यर्थ-। ननु "तस्येद"मित्यणस्तदपवियुज्यतवादस्य वृद्धाच्छस्य च शैषिकत्वादपत्यार्थे प्रसक्तिरेव नास्ति, "अपत्यादिचतुरर्थीपर्यन्तेभ्यो योऽन्योऽर्थः स शेषः" इत्यब्युपगमादत आह-- उत्सर्गः शेष एवासाविति। असौ--अपत्यार्थः। अयं भावः--असति योगविभागे अदन्तबाह्वादिप्रकृतिसंबद्धस्यैवाऽपत्यार्थस्योपयोगादुपग्वादिप्रकृतिसंबद्धोऽपत्यार्थः शेष एव स्यात्। तथा चाऽणं बाधित्वा भान्वादिभ्यो वृद्धाच्छः प्रसज्येत। योगविभागे तु कृते प्रकृतिसामान्यसंबद्धस्याप्यपत्यार्थस्योपयोगाच्छेषत्वाऽभावेन छस्य प्राप्तिरेव नास्तीति। ननु उपग्वादेरवृद्धत्वेन छस्य प्रसक्त्यभावान्निष्पलो योगविभाग इत्यत आह---वृद्धानीति। "प्रातिपदिकानी"ति शेषः। कृतसन्धेः किमिति। अन्तरङ्गत्वात्संधौ कृतायां तदुत्तरमेव प्रत्ययो भविष्यतीत्यधिकारसूत्रस्थं समर्थपदग्रहणं किमर्थमिति प्रश्नः। अकृतेति। इयं च परिभाषा समर्थग्रहणेन ज्ञापितेति हरदत्तादयः, लोकतः सिद्धेत्यन्ये। सावुत्थितिर्माभूदिति। अन्तरङ्गपरिभाषाया अपवादभूतया "अकृते"त्यनया अकृतसन्धेरेव प्रत्यय स्यात्। तन्निवारणाय समर्थग्रहणधिकरणसूत्रस्थमावश्यकमिति भावः। यद्यपि तत्र "सामथ्र्यं परिनिष्ठितत्व"मित्यविशेषेणोक्तं, तथापि ङ्याप्प्रातिपदिकासे एव परिनिष्ठितत्वं न तु सुब्विशिष्टे इत्यवदेयम्। तेन औपगवो दण्डिमानित्यादि सिद्धम्। अन्यथा "औपगः" "दण्डीमा"मित्यादि स्यात्। "अ()इआमानणि"त्यादिनिर्देशश्चेह लिङ्गम्। यदि तु पामादिगणे "विष्वगित्युत्तरपदलोपश्चे"त्यत्राऽकृतसन्धिग्रहणेन "परिनिष्ठतात्तद्धितोत्पत्ति"रित्यभ्युपगम्यते, तर्हि व्यर्थमेव समर्थग्रहणमित्याहुः। प्रथमात्किमिति। "तस्यापत्य"मित्यत्र निर्दिष्टपदद्वयमध्ये प्राथमिकमेव प्रकृतिसमर्पकं, न त्वपत्यम्। तथाच प्रकृत्याकाङ्क्षायांतदेव ग्रहीष्यत इति किं तेन "प्रथमा"दित्येनेनेति प्रश्नः।