पूर्वम्: ४।१।९४
अनन्तरम्: ४।१।९६
 
सूत्रम्
अत इञ्॥ ४।१।९५
काशिका-वृत्तिः
अत इञ् ४।१।९५

तस्य अपत्यम् इत्येव। अकारान्तात् प्रातिपदिकातिञ् प्रत्ययो भवति। अणो ऽपवादः। दक्षस्य अपत्यं दाक्षिः। तपरकरणं किम्? शुभंयाः, कीलालपाः इत्यतो मा भूत्। कथं प्रदीयतां दाशरथाय मैथिलि? शेषविवक्षया भविष्यति।
लघु-सिद्धान्त-कौमुदी
अत इञ् १०१७, ४।१।९५

अपत्येर्ऽथे। दाक्षिः॥
न्यासः
अत इञ्। , ४।१।९५

"अतः"इत्यनेन प्रकृतं प्रातिपदिकं विशिष्यते, विशेषणेन च तदन्तविधिर्भवतीत्यत आह-- "अकारान्तात् प्रातिपदिकात्" इति। अथात इति "अत सातत्यगमने" (धा।पा।३४) इत्यस्य क्विबन्तस्य ग्रहणं कस्मान्न विज्ञायते? "शिवादिभ्योऽण्" ४।१।११२ इति वचनात्। तद्धीञो बाधनार्थं क्रियते। यदि चेह स्वरूपग्रहणं स्यात्, शिवादिभ्यः प्रसङ्ग एव नास्तीति तेभ्यस्तद्बाधनार्थमण्विधानमनर्थकं स्यात्, क्रौड()आदीनाञ्चेञन्तानां पाठात्। तस्मादकारान्तस्यैवेदं ग्रहणम्। यद्येवम्, अस्यापत्यमिरित्यत्र न प्राप्नोति, अनकारान्तत्वात्? एतदपि व्यपदेशिवद्भावेनाकारान्तं भवतीत्यदोषः। "शुभंयाः, कीलालपाः" इति। यातेः, पिबतेश्च "आतो मनिन्क्वनिब्वनिपश्च" ३।२।७४ इत्यत्र हि "विजुपेश्छन्दसि" ३।२।७३ इत्यतश्चकारेण विजप्यनुकृष्यते। "कथम्" इत्यादि। दशरथशब्दादप्यकारान्तदिञा भवितव्यम्। ततः "दाशरथाय" इत्यणन्तस्य प्रयोगो नोपपद्यत इति भावः। "शेषविवक्षायाम्" इत्यादि। एतेन दशरथस्यायमित्यर्थविवक्षायामत्राण विहितः, न तु "तस्यापत्यम्" ४।१।९२ इत्यर्थविवक्षायामिति दर्शयति। यदा तु दशरथस्यापत्यमिति विवक्ष्यते, तदेञ्भवत्येव-- दाशरथिरिति॥
बाल-मनोरमा
अत इञ् १०७९, ४।१।९५

अत इञ्। प्रातिपदिकादित्यधिकृतमता विशेष्यते, तदन्तविधिः। तदाह--अदन्तं यत्प्रातिपदिकमिति। "तस्यापत्य"मित्यनुवृत्तं "समर्थानां प्रथमाद्वे"ति च। ततश्च प्रथमोच्चारिततच्छब्दबोधितात्प्रातिपदिकादिति लब्धं। सुबन्तात्द्धितोत्पत्तिरिति सिद्धान्तात्सुबन्तादिति लभ्यते। सुप्चेहोपस्थितत्वात्षष्ठ()एव विवक्षिता। तथा च षष्ठ()न्तात्प्रातिपदिकादिति लभ्यते। यद्यपि प्रातिपदिकं न षष्ठ()न्तं, प्रत्ययग्रहणपरिभाषया प्रकृतिप्रत्ययसमुदायस्यैव लाभात्। तथापि प्रातिपदिकप्रकृतिषष्ठ()न्तादित्यर्थो विवक्षितः। तदाह--तत्प्रकृतिकात्षष्ठ()न्तादिति। दाक्षिरिति। दक्षस्यापत्यमिति विग्रहः। इञ्। आदिवृद्धिः, "यस्येति चे"त्यकारलोपः। "प्रदीयतां दाशरथाय मैथिली"ति त्वार्षमिति "तस्यापत्य"मित्यत्र निरूपितम्। प्रातिपदिकग्रहणाऽननुवृत्तौ त्वदन्तात्षष्ठ()न्तादिति लभ्येत। तथा च दक्षयोरपत्यं दाक्षिरिति न सिध्येदिति भावः।

तत्त्व-बोधिनी
अत इञ् ९०३, ४।१।९५

अत इञ्। "घकालतने"ष्विति ज्ञापकात्सुबन्तादेव तद्धितोत्पत्तिरित्यभ्युपगमेऽप्यधिकृतप्रातिपदिकस्य न वैयथ्र्यं, किं तु प्रयोजनमस्तीति ध्वनयति----अदन्तं यत्प्रातिपदिकमिति। "अत"इत्यस्य सुबन्तविसेषणत्वे तु दक्षयोरपत्यमित्यादिविवक्षायां दाक्षिरित्यादि न सिद्ध्येदिति भावः। तपरः किम्()। वि()आपोऽपत्यं वै()आपः। "प्रदीयतां दाशरथाये"त्यत्र तु "तस्येद"मित्यण्। अपत्यत्वविवक्षायां त्विञेव।