पूर्वम्: ४।२।८
अनन्तरम्: ४।२।१०
 
सूत्रम्
परिवृतो रथः॥ ४।२।९
काशिका-वृत्तिः
परिवृतो रथः ४।२।१०

तेन इति तृतीयासमर्थात् परिवृतः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यो ऽसौ परिवृतः रथश्चेत् स भवति। वस्त्रेण प्रतिवृतो रथः वास्त्रो रथः। काम्बलः। चार्मणः। रथः इति किम्? वस्त्रेण परिवृतः कायः। समन्तात् वेष्टितः परिवृत उच्यते। यस्य कश्चिदवयवो वस्त्रादिभिरवेष्टितः, तत्र न भवति। तेन इह न, छात्रैः परिवृतो रथः।
लघु-सिद्धान्त-कौमुदी
परिवृतो रथः १०४१, ४।२।९

अस्मिन्नर्थेऽण् प्रत्ययो भवति। वस्त्रेण परिवृतो वास्त्रो रथः॥
न्यासः
परिवृतो रथः। , ४।२।९

"चार्मणः"इति। "अन्" ६।४।१६७ इति प्रकृतिभावे टिलोपो न भवति। "न संयोगा४द्वमन्तात्" ६।४।१३७ इत्यल्लोपो न भवति। अथेह कस्मान्न भवति-- छात्त्रैः परिवृतो रथ इति? अत्राह-- "समन्ताद्वेष्टितः" इत्यादि। वृणोतिरयं वेष्टने वत्र्तते, तस्य परिणा सर्वतो भावो द्योत्यते। तस्माद्यः सर्वतो वेष्ट()ते तत्रैव त्ययेन भवितव्यम्, न तु छात्त्रैः रथः सर्वतो वेष्टितः, ततो न तत्र प्रत्ययस्य प्रसङ्गः। यस्तु छात्त्रैः परिवृतो रथ इति प्रयोगः,सपरिवृतस्याध्यारोपेणौपचारिकः।नच मुख्ये सति परिवृतत्वे गौणस्याध्यारोपितस्य ग्रहणं युक्तम्॥
बाल-मनोरमा
परिवृतो रथः ११९३, ४।२।९

परिवृतो रथः। "तेने"त्यनुवर्तते। तेन "परिवृतोरथः" इत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः। ननु छात्रैः परिवृतो रथ इत्यत्रापि स्यादित्यत आह--समन्तादिति। रथस्य समन्तादाच्छादनार्थं यद्वस्त्रादिकं रथावयवभूतं तद्वाचकादेवेत्याशयः, एकान्तग्रहणिति वार्तिकात्।

तत्त्व-बोधिनी
परिवृतो रथः ९८७, ४।२।९

परिवृतो। तृतीयान्तत्परिवृत इत्यर्थेऽणादय स्युर्यः परिवृत्तः स चेद्रथो भवति। रथाच्छादनार्थं यद्वस्त्रकम्बलादिकं तत एव सर्ववेष्टनं भवति, न तु च्छात्रादिभ्य इत्याशयेनाह---समन्ताद्वेष्टित इति। परिः सर्वतोबावे वर्तत इति भावः।