पूर्वम्: ४।२।९८
अनन्तरम्: ४।२।१००
 
सूत्रम्
रंकोरमनुष्येऽण् च॥ ४।२।९९
काशिका-वृत्तिः
रङ्कोरमनुष्ये ऽण् च ४।२।१००

रङ्कुशब्दादण् प्रत्ययो भवति, चकारात् ष्फक् च शैषिको ऽमनुस्ये ऽभिधेये। राङ्कवो गौः, राङ्कवायणो गौः। अमनुस्ये इति किम्? राङ्कवको मनुस्यः। ननु च रङ्कुशब्दः कच्छादिषु पठ्यते, तत्र च मनुष्यतस्थयोर् वुञ् ४।२।१३३ इति मनुस्ये परत्वाद् वुञैव भवितव्यं, कच्छादिपाठादमनुस्ये अणपि सिद्धः, किम् इह मनुस्यप्रतिषेधेन अण्ग्रहनेन च? तदुच्यते, न एव अयम् मनुस्यप्रतिषेधः, किं तर्हि, नञिवयक्तन्यायेन मनुस्यसदृशे प्राणिनि प्रतिपत्तिः क्रियते। तेन राङ्कवः कम्बलः इति ष्फक् न भवति। विशेषविहितेन च ष्फका अणो बाधा मा भूतित्यण्ग्रहणम् अपि क्रियते।
न्यासः
रङ्कोरमनुष्ये च। , ४।२।९९

"ओर्देशे ठञ्" ४।२।११८ इति ठञि "जनपदतदवध्योश्च" ४।२।१२३ इति जनपदलक्षणे वुञि "कोपधादण्" ४।२।१३१ इत्यणि प्राप्ते वचनम्। "{कच्छादिपाठादमनुष्येऽणापि--काशिका,पदमञ्जरी च।} कच्छादिपाठादणिप सिद्धः" इति। "कच्छादिभ्यश्च" ४।२।१३२ इत्यत्र "कोपधादण्" ४।२।१३१ इत्यण् ग्रहणानुवृत्तेः। "नञिवयुक्तन्यायेन"इति। नञ्युक्ते चेवयुक्ते च तत्सदृशसम्प्रत्ययो भवति। इह च मनुष्यशब्दो नञ्युक्तः, तस्मान्नेह मनुष्यन्नेह मनुष्यप्रतिषेध्यः क्रियते। अपि च मनुष्यसदृशे प्राणिन्येव प्रवृत्तिः, तेन मनुष्यसदृशे प्राणिनि ष्फगणौ भवतः। अप्राणिनि तु कच्छादिपाठादणेव भवति, न ष्पक्-- "राङ्कवः कम्बलः"इति। "विशेष विहितेन" इत्यादि। यदीहाप्यण्न क्रियेत,तदा"{कच्छादिभ्यश्च इत्येव सूत्रम्।} कच्छादिभ्योऽण्" ४।२।१३२ इत्यणो राङ्कवः कम्बल इत्यत्र सावकाशत्वात् प्राणिनि विशेषविहितेन ष्फका तस्य बाधनं स्यात्। तस्मादेष दोषो मा भूदित्यणपि क्रियते॥
बाल-मनोरमा
रङ्कोरमनुष्येऽण्च १३०१, ४।२।९९

रङ्कोरमनुष्येऽण् च। रङ्कोरण् स्याच्चात्ष्फक्। राङ्कवो गौरिति। रङ्कुर्नाम देशविशेषः। तत्र जातादिरित्यर्थः। राङ्कवको मनुष्य इति। अत्र मनुष्यत्वान्न ष्फगणौ। किन्तु "मनुष्यस्तत्स्थयो"रिति वक्ष्यमाणो वुञ्। अकादेशः। राङ्कवो मनुष्य इति त्वपपाठः।

तत्त्व-बोधिनी
रङ्कोरमनुष्येऽण्च १०४३, ४।२।९९

रङ्कोरमनुष्ये। रङ्कवो जनपदः, ततः "प्राग्दीव्यतोऽ"णित्यण्प्राप्तः। तद्बाधकत्वेन "अवृद्धादपी"ति वुञ्प्राप्तः, तमपि बाधित्वा "ओर्देशे"इति ठञप्राप्तः, तस्य तु "कोपधादण्"बाधकः, ततो।ञपि परत्वात्कच्छाद्यणि प्राप्तेऽनेन ष्फगणौ विधीयेते। कोपधत्वादेवाऽणि सिद्धे कच्छादिषु सङ्कुशब्दस्य पाठो "मनुष्यतत्स्थयोर्वुञ्"विधानार्थ इति कैयटः। अतएवाह----राङ्कवको मनुष्य इति॥ क्वचित्तु "राङ्कव"इति पठ()ते, स तु लेखकप्रमादः। स्यादेतत्---अमनुष्यग्रहणमिह व्यर्थम्, अपवादेन वुञा तत्र ष्फगणोर्बाधेनाऽमनुष्य एव पर्यवसानात्। अण्()ग्रहणमपि व्यर्थमेव, कच्छादित्वादेव तत्सिद्धेः। अत्राह काशिकाकृत्--नायं प्रसज्यप्रतिषेधः किं तु पर्युदासः, तेन मनुष्यभिन्ने प्राणिन्येव ष्फग्विधीयत इति, राङ्क्रवः कम्बल इत्यत्र न ष्फक्। विशेष विहितेन ष्पका अणो बाधा मा भूदित्यण्ग्रहणं च क्रियत इति। भाष्ये तु अप्राणिन्यपि ष्फकमङ्गीकत्येदं द्वयमपि प्रत्याख्यातम्।