पूर्वम्: ४।२।९९
अनन्तरम्: ४।२।१०१
 
सूत्रम्
द्युप्रागपागुदक्प्रतीचो यत्॥ ४।२।१००
काशिका-वृत्तिः
द्युप्रागपागुदक्प्रतीचो यत् ४।२।१०१

दिव् प्राचपाचुदच् प्रत्यचित्येतेभ्यो यत् प्रत्ययो भवति शैसिकः। दिव्यम्। प्राच्यम्। अपाच्यम्। उदीच्यम्। प्रतीच्यम्। अव्ययात् तु कालवाचिनः परत्वात् ट्युट्युलौ भवतः। प्राक्तनम्।
लघु-सिद्धान्त-कौमुदी
द्युप्रागपागुदक्प्रतीचो यत् १०७६, ४।२।१००

दिव्यम्। प्राच्यम्। अपाच्यम्। उदीच्यम्। प्रतीच्यम्॥
न्यासः
द्युप्रागपागुदक्प्रतीचो यत्। , ४।२।१००

अणि प्राप्ते यद् विधीयते। प्रागित्यादयः शब्दा अञ्चतेः "ऋत्विक्"३।२।५९ इत्यादिना क्विनि कृते सत्यात्मानं लभन्ते। ते च द्विविधाः-- अव्ययसंज्ञका,अनव्ययसंज्ञकाश्च। यदा त्वस्तातिप्रत्ययान्ता भवन्ति तदा "तद्धितश्चासर्वविभक्तिः" १।१।३७ इत्यव्ययसंज्ञाविधानादव्ययसंज्ञकाः,अन्यदा त्वनव्ययसंज्ञकाः। तेषामिह विशेषस्यानुपादानादुभयेषामपि ग्रहणम्। "प्राच्यम्, "{अवाच्यम्--इतिकाशिकापाठः,पदमञ्जरीपाठश्च। }अपाच्यम्" इति। "अचः" ६।४।१३८ इत्यकारलोपः, "चौ" ६।३।१३७ इति दीर्घः। "उदीच्यम्" इति।"उद ईत्" ६।४।१३९ इतीकारः। "प्राक्तनम्" इति। प्राक्शब्दात् "दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिक्" ५।३।२७ इत्यादिनाऽस्तातिः, तस्य "अञ्चेर्लुक्" ५।३।३० इति लुक्, ततोऽनेन यति प्राप्ते "सायञ्चिरम्" ४।३।२३ इत्यादिना ट()उट()उलौ भवतः। यतस्तु -- यश्च कालवाची सोऽवकाशः॥
बाल-मनोरमा
द्युप्रागपागुदक्प्रतीचो यत् १३०२, ४।२।१००

द्युप्रागपाक्। दिव्, प्राञ्च्, अपाञ्च्, उदञ्च्, प्रत्यञ्च् एभ्यो यत्स्यादित्यर्थः। सूत्रे "दिव उत्" इत्युत्त्वेन निर्देशः। दिव्यमिति। दिवि जातादीत्यर्थः। प्राच्यमिति। प्राचि प्रदेशे जातादीत्यर्थः। तद्धितोत्पत्तौ सुब्लुकि प्राञ्च् य इति स्थिते "अनिदिता"मिति नलोपे "अचः" इत्यकारलोपे "चौ" इति दीर्घे प्राच्यमिति रूपम्। अपाच्यमिति। इदमपि पूर्ववत्। उदीच्यमिति। अत्र "उद ईदि"ति ईत्त्वं विशेषः। प्रतीच्यमिति। प्राच्यवद्रूपम्।

तत्त्व-बोधिनी
द्युप्रागपागुक्प्रतीचो यत् १०४४, ४।२।१००

द्युप्रागपा। दिव्यमिति। सूत्रे "दिव उ" दित्युत्वेन निर्देश इति भावः। अपाची दक्षिणा दिक्। द्वितीयो वर्णः पकारो, न तु दन्त्योष्ठ्यः, "यदिन्द्र प्रागपागुद"गित्यादौ तथा दर्शनादिति स्थितं मनोरमायाम्। केचुत्तु "प्राच्यवाचीप्रतीच्यास्ताः"इत्यमरकेशे अवाचीति दन्त्योष्ठ()पाठं क्वाचित्कं पुरस्कृत्य सूत्रेऽपि "अवा"गिति पठित्वा "अवाच्य"मित्युदाहरन्ति। "प्रागपाक्िति वेदे तु व्यत्ययेन वकारस्य पकार इति तेषामाशयः। प्रागादयोऽस्तात्यन्ता अव्ययाः, तद्भिन्नास्त्वनव्ययाः, उभयेषामपीह ग्रहणमविशेषात्। कथं तर्हि "संस्काराः प्राक्तना इव"इति()। अत्राहुः---कालवाचिनः प्राक्शब्दाद्यतं बाधित्वा परत्वात्ट()उट()उलौ बोध्याविति।