कन्थायाः इत्येव। वर्णौ या कन्था तस्या वुक् प्रत्ययो भवति शैषिकः। ठको ऽपवादः। वर्णुर्नाम नदः, तत्समीपो देशो वर्णुः। तद्विषयार्थवाचिनः कन्थाशब्दादयं प्रत्ययः। तथा हि जातं हिमवत्सु कान्थकम्।
"वर्णुः" इति। नदोऽभिधीयते। रुआओतसि च कन्था न सम्भवीति सामीपिकमधिकरणं विज्ञायते, अत आह-- "तत्समीपो देशो वर्णुः" इति। वर्णुशब्दात् "अदूरभवश्च"
४।२।६९ इत्यत्रार्थे "सुवास्त्वादिभ्योऽण्"
४।२।७६ इत्यण्, तस्य "जनपदे लुप्"
४।२।८० इति लुपि कृते वर्णुरिति भवति।
ननु च प्रतिपदविधानात् प्रत्ययस्य लुब्न भवति? नैवम्; सुवास्त्वादिपाठो हि जनपदादान्यस्मिन् प्रत्ययार्थे कृतार्थः--"वार्णवो ग्रामो नगरमिति, न तु जनपदे। तत्र तु परत्वाल्लोपेन भवितव्यम्। "तद्धिषयार्थ"इति। विषयग्रहणेन वर्णादिति सप्तम्या विषयसप्तमीत्वं दर्शयति। स वर्णुदेशो विषयो यस्य तद्विषयार्थः। सा पुनः कन्थैव॥
वर्णौ वुक्। वर्णुसमीपेति। वर्णुर्नाम सिन्धुनदः, तस्याऽदूरभव इत्यर्थे सुवास्त्वादित्वादणो "जनपदे लुबि"ति लुप्। तथाच वर्णुसमीपदेशो वर्णुः, तस्मिन् या कन्था तद्वाचकाद्वक्प्रत्यय इति यावत्।
वर्णो वुक्। वर्णुरिति। "अदूरभवेश्चे"त्यर्थे सुवास्त्वादित्वादणि "जनपदे लु"बिति लुप्।
अमेहक्वतसित्रेभ्य एव। अमात्य इति। अमाशब्दः समीपवाची स्वरादिः। अमा=समीपे भव इत्यर्थः।