पूर्वम्: ४।२।१०२
अनन्तरम्: ४।२।१०४
 
सूत्रम्
अव्ययात्त्यप्॥ ४।२।१०३
काशिका-वृत्तिः
अव्ययात् त्यप् ४।२।१०४

अव्ययात् त्यप् प्रत्ययो भवति शैषिकः। अमेहक्वतसित्रेभ्यस् त्यद्विधिर् यो ऽव्ययात् स्मृतः। निनिर्भ्यां घ्रुवगत्योश्च प्रवेशो नियमे तथा। अमात्यः। इहत्यः। क्वत्यः। इतस्त्यः। तत्रत्यः। यत्रत्यः। परिगणनं किम्? औपरिष्टः पौरस्तः। पारस्तः। वृद्धात्तुधो भवति। आरातीयः। त्यब् नेर्घ्रुवे। नियतं घ्रुवम् नित्यम्। निसो गते। निर्गतो वर्णाश्रमेभ्यः निष्ट्यः चण्डालादिः। आविसश् छन्दसि। आविस् शब्दाच् छन्दसि त्यप् प्रत्ययो भवति। आविष्ट्यो वर्धते चारुरासु। अरण्याण् णो वक्तव्यः। आरण्याः सुमनसः। दूरादेत्यः। दूरेत्यः पथिकः। उत्तरादाहञ्। औत्तराहम्।
लघु-सिद्धान्त-कौमुदी
अव्ययात्त्यप् १०७७, ४।२।१०३

(अमेहक्वतसित्रेभ्य एव)। अमात्यः। इहत्यः। क्वत्यः। ततस्त्यः। तत्रत्यः। (त्यब्नेर्ध्रुव इति वक्तव्यम्)। नित्यः॥
न्यासः
अव्ययात्त्यप्। , ४।२।१०३

"अमेह" इत्यादि। परिगणनम्। एतच्चोत्तरसूत्रस्थस्यान्यतरस्यांग्रहणस्यभोर्योगयोः विज्ञायते व्यवस्थितविभाषाविज्ञानाच्च लभ्यते। अमाशब्दः समीवाची, स्वरादिपाठादव्ययत्वम्। इहेत्यादीनां "तद्धितश्चासर्वविभक्तिः"१।१।३७ इति। अमा भवोऽमात्यः। "औपरिष्टः" इति। उपरिष्टाद्भवतीत्यणि कृते "अव्ययानां भमात्रे टिलोपो वक्तव्यः" (वा।८४२) इति टिलोपः।परतो भवः "पारस्तः"। परतः शब्दः "विभाषा परावराभ्याम्" ५।३।२९ इत्यसुजन्तः। "आरातीयः" इति। अत्र टिलोपो न भवति; "बहिषष्टिलोपश्च" (वा।३७८) इत्यत्रानित्यत्वस्य ज्ञापितत्वात्। "त्यब्नेध्र्रुवे" इति। निशब्दाध्रुवे वाच्ये त्यब्भवति। नियते सर्वकाले भवो नित्यः। "निसो गते" इति। निःशब्दाद्गते वाच्ये त्यब्भवति। "निष्ट()ः" इति। "ह्यस्वात्तादौ तद्धिते" ८।३।९९ इति मूर्धन्यः। एवमादविष्ट() इत्यत्रापि भवति॥
बाल-मनोरमा
अव्ययात्त्यप् १३०५, ४।२।१०३

अव्ययात्त्यप्।

अमेहेति। अमा, इह, क्व, तसि, त्र एभ्य एव अव्ययेभ्यस्त्यप्प्रत्यय इति परिगणनवार्तिकमिदम्। अमात्य इति। समीपे सह वा जात इत्यर्थः। औपरिष्ट इति। "उपरिष्टा"दित्यव्ययस्य परिगणितेष्वनन्तर्भावान्न त्यप्। अणि "औपरिष्ट" इति रूपमित्यर्थः।

कथमिह टिलोप इत्यत आह--अव्ययानामिति। वार्तिकमिदम्। भमात्रे इति। कार्त्स्न्ये मात्रशब्दः। कृत्स्नस्य भस्याव्ययस्य टेर्लोपः। "नस्तद्धिते" इत्याद्युपाधिर्नापेक्षित इत्यर्थः। नन्वेवं सति आरादित्यव्ययाच्छस्य ईयादेशे टिलोपे "आरीय" इति स्यादित्यत आह--अनित्योऽयमिति।

त्यब्नेरिति। नि इत्यव्ययात्त्यप् स्याद्ध्रुवे गम्ये इत्यर्थः। नियतं भवं नित्य"मिति भाष्यम्।

निसो गत इति। निस् इस्यव्ययात्त्यब्वक्तव्यो गते गम्ये इत्यर्थः। निस्-त्य इति स्थिते सकारस्य पदान्तत्वादादेशप्रत्ययावयवत्वाऽभावाच्च षत्वे अप्राप्ते--।