पूर्वम्: ४।२।१०३
अनन्तरम्: ४।२।१०५
 
सूत्रम्
ऐषमोह्यःश्वसोऽन्यतरस्याम्॥ ४।२।१०४
काशिका-वृत्तिः
ऐषमेओह्यःश्वसो ऽन्यतरस्याम् ४।२।१०५

ऐषमस् ह्यस् श्वसित्येतेभ्यो ऽन्यतरस्यां त्यप् पत्ययो भवति शैषिकः। ऐषमस्त्यम्, ऐषमस्तनम्। ह्यस्त्यम्, ह्यस्तनम्। श्वस्त्यम्, श्वस्तनम्। श्वसस्तुट् च ४।३।१५ इति ठञपि तृतीयो भवति। शौवस्तिकम्।
न्यासः
ऐषमोह्रः�आसोऽन्तरस्याम्। , ४।२।१०४

ऐषमःप्रभृ-तीनि कालवाचीनि प्रातिपदिकान्यव्ययानि। "सायञ्चिरम्" ४।३।२३ इत्यादिना परत्वाट्ट()उट()उलोः प्राप्तयोरिदं वचनम्। "शोवस्तिकम्" इति। "द्वारादीनाञ्च" ७।३।४ इत्यैजागमः॥
बाल-मनोरमा
ऐषमोह्रः�आसोऽन्यतरस्याम् १३०७, ४।२।१०४

ऐषमोह्रः। एभ्य इति। ऐषमस्, ह्रस्, ()आस् एतेभ्य इत्यर्थः। वक्ष्यमाणाविति। "सायञ्चिरंप्राहेप्रगेऽव्ययेभ्यष्ट()उठ्युलौ तुट् चे"त्यनेनेति शेषः। ऐषमस्त्यमिति। ऐषमस् इत्यव्ययं वर्तमाने संवत्सरे वर्तते। तत्र भवमित्यर्थः। "परुत्परो र्यैषमो।ञब्दे पूर्वे पूर्वतरे यती"त्यमरः। ऐषमस्तनमिति। ठ्युठ्युलौ वा। टावितौ, य्वोरनादेशः, तस्य तुट्, ट इत्, उकार उच्चारणार्थः, टित्त्वादाद्यवयवः। ह्रस्त्यं, ह्रस्तनमिति। ह्रसित्यव्ययं गतेऽह्नि। तत्र भवमित्यर्थः। ()आस्त्यं-()आस्तनमिति। ()आस् इत्यव्ययमनागतेऽह्नि। तत्र भवमित्यर्थः। "ह्रो गतेऽनागतेऽह्नि ()आः" इत्यमरः। पक्षे इति। "()आसस्तुट् चे"ति ठञि तस्य इकादेशे तुडागमे "द्वारादीनां चे"त्यैजागमे "शौवस्तिक"मित्यपि वक्ष्यमाणं रूपमित्यर्थः।

तत्त्व-बोधिनी
ऐषमोह्रः�आसोऽन्यतरस्याम् १०४७, ४।२।१०४

वक्ष्यमाणाविति। "सायंचिर"मित्यादिने"ति शेषः। वक्ष्यत इति। "()आसस्तुट् चे"त्यत्र।