पूर्वम्: ४।२।१०५
अनन्तरम्: ४।२।१०७
 
सूत्रम्
दिक्पूर्वपदादसंज्ञायां ञः॥ ४।२।१०६
काशिका-वृत्तिः
दिक्पूर्वपदादसंज्ञायां ञः ४।२।१०७

असंज्ञायाम् इति प्रकृतिविशेषणम्। दिक्पूर्वपदात् प्रातिपदिकातसंज्ञाविषयात् ञः पत्ययो ह्बवति शैषिकः। अणो ऽपवदः। पौर्वशालः। दाक्षिणशालः। आपरशालः। असंज्ञायाम् इति किम्? पूर्वैषुकामशमः। अपरैषुकामशमः। दिक्षङ्ख्ये संज्ञायाम् २।१।४९ इति समासः। प्राचां ग्रामनगराणाम् इति उत्तरपदवृद्धिः। पदग्रहणं स्वरूपविधिनिरासार्थम्।
लघु-सिद्धान्त-कौमुदी
दिक्पूर्वपदादसंज्ञायां ञः ९४०, ४।२।१०६

अस्माद्भवाद्यर्थे ञः स्यादसंज्ञायाम्॥
न्यासः
दिक्पूर्वपदादसंज्ञायां ञः। , ४।२।१०६

"पौर्वशालः"इति। पूर्वस्यां शालायां भवः पौर्वशालः। "तद्धितार्थः" २।१।५० इत्यादिना तद्धितार्थे समासः, ततः प्रत्ययः। अथ पदग्रहणं किमर्थम्? "न दिक्पूर्वात्" इत्येवोच्येत? इत्यत आह-- "पदग्रहणम्" इत्यादि। असति हि पदग्रहण स्वरूपग्रहणं स्यात्। तथा च दिग्गजः, दिग्नागः, दिग्दाहः-- इत्येवमादिः प्रकृतिर्विज्ञायते। पदग्रहणे तु सति दिग्विशेषो गृह्रते,कथम्? पदग्रहणसामथ्र्याद्व्याधिकरणे बहुव्रीहिर्विज्ञायते-- दिशः पूर्वपदं यस्य। दिश इति च वाचकापेक्षया षष्ठी विज्ञायते। तेनेह तदभिधायी पूर्वादिदिक्शब्दो गृह्रते।
बाल-मनोरमा
दिक्पूर्वपदादसंज्ञायां ञः १३०९, ४।२।१०६

दिक्पूर्वपदात्। पञ्चम्यर्थे सप्तमी। असंज्ञाभूताद्दिक्पूर्वपदकाञ्ञः स्यादित्यर्थः। पौर्वशाल इति। पूर्वस्यां शालायां भव इत्यर्थे "तद्धितार्थ" इति समासाञ्ञः।

तत्त्व-बोधिनी
दिक्पूर्वपदादसंज्ञायां ञः १०४८, ४।२।१०६

दिक्पूर्व। "असंज्ञायामि"त्यत्र सौत्रत्वात्पञ्चम्यर्थे सप्तमीत्याशयेनाह---संज्ञाभूताया इति।