पूर्वम्: ४।२।१०९
अनन्तरम्: ४।२।१११
 
सूत्रम्
कण्वादिभ्यो गोत्रे॥ ४।२।११०
काशिका-वृत्तिः
कण्वाऽदिभ्यो गोत्रे ४।२।१११

गोत्रम् इह न प्रत्ययार्थो न च प्रकृतिविशेषणम्। तर्ह्येवं सम्बध्यते, कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितः, तदन्तेभ्य एव अण् प्रत्ययो भवति शैषिकः। छस्य अपवादः। काण्वाः छात्राः। गौकक्षाः।
न्यासः
कण्वादिभ्यो गोत्रे। , ४।२।११०

"गोत्रग्रहणमिह न प्रत्ययार्थम्" इति। शेषाधिकारात्। यदि हि प्रत्ययार्थः स्यात्, शेषाधिकारो वाच्येत। "{न च--काशिका पदमञ्जरी च} न प्रकृतिविशेषणम्"िति)। असम्भवात्। न हि कण्वादीनां परमप्रकृतिरूपाणामेव गोत्रार्थत्वं सम्भवति। तर्हि गोत्रग्रहणं सम्बध्येतेत्येवमर्थं पृच्छति। "एवम्" इत्यादिना प्रत्ययविधिविशेषणं गोत्रग्रहणमिति दर्शयित्वा तेन गोत्रप्रत्ययान्तेभ्यः कण्वादिभ्योऽण् भवतीति दर्शयति। "छस्यापवादः" इति। गोत्रप्रत्ययान्तानां कण्वादीनां वृद्धत्वात्। "काण्वाः, गौकक्षाः"इति। कण्वगोकक्षशब्दाभ्यां गोत्रापत्ये गर्गादि ४।१।१०५ इत्वाद्यञ्, तदन्तादण्, "आपत्यस्य" ६।४।१५१ इत्यादिना यलोपः। "काण्वः" इति। "सास्य देवता" ४।२।२३ इत्यण्॥
बाल-मनोरमा
कण्वादिभ्यो गोत्रे १३१३, ४।२।११०

कण्वादिभ्यो गोत्रे। काण्व्यस्येति। कण्वस्य गोत्रापत्यं काण्व्यः। गर्गादियञ्। काण्व्यस्य छापवादोऽण्। "यस्येति चे"त्यकारलोपः। "आपत्यस्य चे"ति यकारलोपः। "काण्वा" इति रूपम्।