पूर्वम्: ४।२।१११
अनन्तरम्: ४।२।११३
 
सूत्रम्
न द्व्यचः प्राच्यभरतेषु॥ ४।२।११२
काशिका-वृत्तिः
न द्व्यचः प्राच्यभरतेसु ४।२।११३

द्व्यचः प्रातिपदिकात् प्राच्यभरतगोत्रादिञन्तादण् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। पैङ्गीयाः। पौष्ठीयाः। चैदीयाः। पौष्कीयाः। काशीयाः। पाशीयाः। द्व्यचः इति किम्? पान्नागाराः। प्राच्यभरतेषु इति किम्? दाक्षाः। काशीयाः इति कथम् उदाहृतं, यावता काश्यादिभ्यष् ठञ् ञिठाभ्यां भवितव्यम्? न एतदस्ति। देशवाचिनः काशिशब्दस्य तत्र ग्रहणं चैदिशब्देन साहचर्यात्। गोत्रात् तु वृद्धाच्छः एव भवति। ज्ञापकादन्यत्र प्राच्यग्रहणेन भरतग्रहणं न भवति इति स्वशब्देन भरतानाम् उपादानं कृतम्।
न्यासः
न द्व्यचः प्राच्यभरतेषु। , ४।२।११२

"पैङ्गीयाः, प्रौष्ठीयाः"इति। प्राच्यगोत्रोदाहरणम्। "काशीयाः,पाशीयाः"इति। भरतगोत्रोदाहरणम्। "कथम्" इत्यादि चोद्यम्। "नैतदस्ति" इति परिहारः। उभयञ्चैतत्,तदुदाहरणम्। उभयञ्चैतदनुगतार्थम्। ननु च भरताः प्राच्या एव,ततः प्राच्यग्रहणेनैव तेषां ग्रहणं भविष्यति, तत्किमर्थं तेषांस्वशब्देनोपादानम्? इत्यत आह-- "ज्ञापकादन्यत्र" इत्यादि। क्वान्यत्र? "बह्वच इञः प्राच्यभरतेषु" २।४।६६ इत्यत्र॥
बाल-मनोरमा
न द्व्यचः प्राच्यभरतेषु १३१५, ४।२।११२

न द्वयचः। प्राच्येषु [परेषु?]भरतेषु च गोत्रेषु विद्यमानादिञन्तात् द्व्यचोऽण् न भवतीत्यर्थः। इञश्चेत्यणोऽपवादः। प्रतिषेध इत्यर्थः। प्राष्ठीया इति। प्राष्ठस्य गोत्रापत्यं प्राष्ठिः, तस्य छात्रा इत्यर्थः। काशीया इति। काशस्य गोत्रापत्यं काशिः, तस्य छात्रा इत्यर्थः। अणो निषेधे वृद्धाच्छः। सिङ्गमिति। तेन औद्दालकिः पिता, औद्दालकायनः पुत्र इत्यत्र "इञः प्राचा"मिति भरतेब्यो लुङ् न भवति।

तत्त्व-बोधिनी
न व्द्यचः प्राच्यभरतेषु १०५३, ४।२।११२

न व्द्चः। अपवाद इति। प्रतिषेध इतर्थः॥ भरतानामग्रहणस्येति। तेन "इञः प्राचा"मिति भरतेभ्यो युवप्रत्ययस्य लुड्न भवति, औद्दालकिः पिता, औद्दालकायनः पुत्र इति "अर्हादगोपुच्छे"ति सूत्रे कैयटः। भवतः। छादिरयं प्रत्ययो न तु शादिः, पदसंज्ञार्थं सित्करणादित्यांशयेनाह--जश्त्वमिति।