पूर्वम्: ४।२।११२
अनन्तरम्: ४।२।११४
 
प्रथमावृत्तिः

सूत्रम्॥ वृद्धाच्छः॥ ४।२।११३

पदच्छेदः॥ वृद्धात् ५।१ छः १।१ शेषे ? तद्धिताः ? ङ्याप्प्रातिपदिकात् ? प्रत्ययः ? परश्च ?

अर्थः॥

वृद्ध-संज्ञात् शैषिकः छः प्रत्ययः भवति।

उदाहरणम्॥

गार्गीयः, वात्सीयः, शालीयः, मालीयः॥
काशिका-वृत्तिः
वृद्धाच् छः ४।२।११४

गोत्रे इति न अनुवर्तते। सामान्येन विधानम्। वृद्धात् प्रातिपदिकात् छः प्रत्ययो भवति शैषिकः। अणो ऽपवादः। गार्गीयः। वात्सीयः। शालीयः। मालीयः। अव्ययतीररूप्यौत्तरपदौदीच्यग्राम। कौपधविधीन् तु परत्वाद् बाधते।
लघु-सिद्धान्त-कौमुदी
वृद्धाच्छः १०८०, ४।२।११३

शालीयः। मालीयः। तदीयः। (वा नामधेयस्य वृद्धसंज्ञा वक्तव्या)। देवदत्तीयः, दैवदत्तः॥
न्यासः
वृद्धाच्छः। , ४।२।११३

"अव्ययतीर"इत्यादि। तत्राव्ययविधिं बाधते-- आराद्भव आरातीयः। तीरोत्तर एव विधिः,तं च वायसतीरे भवो वायसतीरीयः। रूपोत्तरपदात्तु छं बाधित्वा "धन्ययोपधाद्()वुञ्" ४।२।१२० इति योपधलक्षणो वुञ् भवति--- मणिरूप्ये भवो माणिरूप्यक इति। उदीच्यग्रामविदिं बाधते-- वाडवाक्षे भवो वाडवाक्षीयः, साडलपुरे भवः साडलपुरीयः। कोपधलक्षमम्--औदके भव औदकीयः, चौल्लुके भवः चौल्लुकीयः। तेषां तु विधीनामवृद्धोऽवकाशः॥
बाल-मनोरमा
वृद्धाच्छः १३१८, ४।२।११३

वृद्धाच्छः। वृद्धसंज्ञकाच्छः स्याज्जातादिष्वर्थेषु। अणोऽपवादः। शालीय इति। शालायां जात इत्यादिरर्थः। एवं तदीयः।

बाल-मनोरमा
भवतष्ठक्छसौ १३२०, ४।२।११३

भवतष्ठक्छसौ। भावत्क इति। "इसुसुक्तान्तात्कः"। ननु भवच्छब्दाच्छस्य ईयादेशे सति भत्वेन पदत्वस्य बाधात्कथं जश्त्वमित्यत आह--जश्त्वमिति। "सिति चे"ति पदत्वेन भत्वस्य बाधादिति भावः। ननु "भावत" इति कथमण्प्रत्ययः, "त्यदादीनि चे"ति भवच्छब्दस्य वृद्धतया छस्यैव युक्तत्वादित्यत आह--वृद्धादित्यनुवृत्तेः शत्रन्तादणेवेति। त्यदादिषु "भातेर्डवतु"रिति डवत्वन्तस्यैव पाठादिति भावः।