पूर्वम्: ४।२।११८
अनन्तरम्: ४।२।१२०
 
सूत्रम्
वृद्धात् प्राचाम्॥ ४।२।११९
काशिका-वृत्तिः
वृद्धत् प्राचाम् ४।२।१२०

ओर् देशे इत्येव। उवर्णान्तात् वृद्धात् प्राग्देशब्वाचिनः। प्रातिपदिकात् ठञ् प्रत्ययो भवति शैषिकः। आढकजम्बुकः। शाकजम्बुकः। नापितवास्तुकः। पूर्वेण एव ठञि सिद्धे नियमार्थं वचनम्, वृद्धादेव प्राचाम् अवृद्धान् न भवति इति। मल्लवास्तु माल्लवास्तवः।
न्यासः
वृद्धात्प्राचाम्। , ४।२।११९

"आढकजम्बुकः" इति। पूर्ववत् कादेशो ह्यस्वत्वञ्च॥
बाल-मनोरमा
वृद्धात्प्राचाम् १३२५, ४।२।११९

वृद्धात्प्राचाम्। "ओर्देशे ठ"ञित्यनुवर्तते। प्राचामिति देशविशेषणं, नतु विकल्पार्थं, व्याख्यानात्। पूर्वेण सिद्धे नियमार्थमिदम्। तदाह--प्राग्देशेत्यादिना। आढकजम्बुक इति। आढकजम्बूर्नाम कश्चिद्ग्रामः। तत्र भव इत्यर्थः। उगन्तात्परत्वाट्ठस्य कः। "केऽणः" इति ह्यस्वः। एवे शाकजम्बुकः। मल्लवास्त्विति। "कश्चित् प्राच्यो ग्राम" इति शेषः।