पूर्वम्: ४।२।१२०
अनन्तरम्: ४।२।१२२
 
सूत्रम्
प्रस्थपुरवहान्ताच्च॥ ४।२।१२१
काशिका-वृत्तिः
प्रस्थपुरवहान्ताच् च ४।२।१२२

वृद्धातित्येव, देशे इति च। अन्तशब्दः प्रत्येकम् अभिसम्बध्यते। प्रस्थपुर वह इत्येवम् अन्तात् देशवाचिनः प्रातिपदिकाद् वृद्धाद् वुञ् प्रत्ययो भवति शैषिकः। छस्य अपवादः। मालाप्रस्थकः। नान्दीपुरकः। कान्तीपुरकः। पैलुवहकः। फाल्गुनीवहकः। पुरान्तो रोपधस्ततः उत्तरसूत्रैणैव सिद्धम् अप्रागर्थम् इह ग्रहणम्।
न्यासः
प्रस्थपुरवहान्ताच्च। , ४।२।१२१

"वृद्धादित्येव" इति। यदि तर्हि वृद्धादित्यनुवत्र्तते वृद्धाधिकारादेव स्वरूपग्रहणाभावात् कथं तदन्तविधिर्भवति, नहि प्रस्थादेः केवलस्य वृद्धत्वं सम्भवति, किं तर्हि? तदन्तस्य, तत्किमन्तग्रहणेन? मैवम्; सत्यपि वृद्धाधिकारे यथा धन्वेति वृद्धग्रहणं हि देशस्य विशेषणं तथेहापि स्यात्, तन्निवृत्त्यर्थमन्तग्रहणं कृतम्॥
बाल-मनोरमा
प्रस्थपुरवहान्ताच्च १३२७, ४।२।१२१

प्रस्थपुरवहान्ताच्च। एतदन्तादिति। प्रस्थ, पुर, वह-एतदन्तादित्यर्थः। ननु पुरान्तग्रहणं व्यर्थं, नान्दीपुरक इत्यत्र "रोपधेतोः प्राचा"मित्युत्तरसूत्रेण सिद्धत्वादित्यत आह--पुरान्तेति।

तत्त्व-बोधिनी
प्रस्थपुरवहान्ताच्च १०५७, ४।२।१२१

उत्तरेणेति। रोपधत्वादिति भावः।