पूर्वम्: ४।२।१२१
अनन्तरम्: ४।२।१२३
 
सूत्रम्
रोपधेतोः प्राचाम्॥ ४।२।१२२
काशिका-वृत्तिः
रौपधैतोः प्राचाम् ४।२।१२३

वृद्धतित्येव, देशे इति च। तद्विशेसणं प्राग्ग्रहणम्। रौपधातीकारान्ताच् च प्रग्देशवाचिनो वृद्धाद् वुञ् प्रत्ययो भवति शैषिकः। छस्य अपवादः। पाटलिपुत्रकाः ऐकचक्रकाः। ईतः खल्वपि काकन्दी। काकन्दकः। माकन्दी। माक्नदकः। प्राचाम् इति किम्? दात्तामित्रीयः। तपरकराणं विस्पष्टार्थम्।
न्यासः
रोपधेतोः प्राचाम्। , ४।२।१२२

"ईकारान्ताच्च" इति।कतं पुनज्र्ञायते---दीर्घस्येदं ग्रहणम्, न ह्यस्वस्येति? सामथ्र्यात्। प्राग्ग्रहणं हि देशस्य विशेषणम्। वृद्धादिति वत्र्तते, न च वृद्धमिकारान्तं प्राग्देशवाच्यस्ति, तस्माद्दीर्घस्येदं ग्रहणमिति विज्ञायते। एकचक्राशब्दस्य तु "एङ् प्राचाम्" १।१।७४ इति वृद्धसंज्ञा। अथ तपरकरणं किमर्थम्, नेह किञ्चित्तस्य व्यावर्त्त्यमस्तीत्यत आह-- "तपरकरणं विस्पष्टार्थम्ट (इति)। असति हि तस्मिन् रोपध इति स्थिते गुणे कृते विभक्तौ च रोपधयोरिति निर्देशः स्यात्। तत्रैव सन्देहः स्यात्--किं रोपधस्येदं ग्रहणम्? उत रोपधस्येकारान्तस्येति? तपरकरणे तु सति सन्देहो न भवति। ईरोपधादिति नोक्तम्, वैचित्र्यार्थम्॥
बाल-मनोरमा
रोपधेतोः प्राचाम् १३२८, ४।२।१२२

रोपधेतोः प्राचां। रोपधश्च, ईच्च तयोरिति द्वन्द्वः। षष्ठी पञ्चम्यर्थे। प्राचामिति धेशविशेषणं। तदाह--रोपधादित्यादिना। ईत इति। "उदाह्यियते" इति शेषः। काकन्दक इति। काकन्दी नाम देशः, तत्र भव इत्यर्थः।