पूर्वम्: ४।२।१२४
अनन्तरम्: ४।२।१२६
 
सूत्रम्
कच्छाग्निवक्त्रगर्त्तोत्तरपदात्॥ ४।२।१२५
काशिका-वृत्तिः
कच्छाग्निवक्त्रगर्तौत्तरपदात् ४।२।१२६

देशे इत्येव उत्तरपदशब्दः प्रत्येकम् अभिसम्बध्यते। कच्छाद्युत्तरपदाद् देशवाचिनः। प्रातिपदिकाच् च अवृद्धाद् वृद्धाच् च वुञ् प्रत्ययो भवति शैषिकः। छणोरपवादः। दारुकच्छकः। पैप्पलीकच्छकः। काण्डाग्नकः। वैभुजाग्नकः। ऐन्द्रवक्त्रकः। सैन्धुवक्त्रकः। बाहुगर्तकः। चाक्रगर्तकः।
न्यासः
कच्छाग्निवक्त्रगत्र्तोत्तरपदात्। , ४।२।१२५

कच्छशब्दार्थमुत्तरपदग्रहणात्, स हि केवलोऽपि देश वत्र्तते। इतरेषां तु केवलानं देशे वृत्त्यसम्भवात् सामथ्र्यादेव तदन्तविधिर्लभ्यत इतीतरान् प्रत्युत्तरपदग्रहणमनर्थकम्। "कच्छाग्निवक्त्रगत्र्तान्तात्" इति नोक्तम्, बहुच्पूर्वान्मा भूत्। यदा हि कच्छदेशेन देशान्तरन्तरस्य गुणसाम्ये सतीषदसमाप्तः कच्छदेश इति कच्छशब्दाद्बहुच् क्रियते तदा बहुकच्छशब्दो देशवचन इति। अन्तग्रहणे तु सति ततोऽपि प्रत्ययः स्यात्, उत्तरपदग्रहणान्न भवति। "दारुकच्छः"इति। कच्छशब्दस्योत्तरपदस्य वृद्धस्योदाहरणम्। "पैप्पलीकच्छकः" इत्यवृद्धस्योदाहरणम्, एवमन्याद्युत्तरपदानामपि। एकवृद्धस्योदाहरणम्। अपरं वृद्धस्य वेदितव्यम्॥
न्यासः
गोयवाग्वोश्च। , ४।२।१२५

बाल-मनोरमा
कच्छाग्निवक्रवर्तोत्तरपदात् १३३१, ४।२।१२५

कच्छाग्नि। कच्छ, अग्नि, वक्त, वर्त-एतदुत्तरपदादित्यर्थः। शेषपूरणेन सूत्रं व्याचष्टे--देशवाचिन इति। छाऽणोरपवादः। दारुकच्छक इति। दारुकच्छे भव इत्यर्थः। काण्डाग्नक इति। काण्डाग्नौ भव इत्यथः। अकादेशे "यस्येति चे"ति इकारलोपः। सैन्धुवक्रक इति। सिन्धुवक्रे भव इत्यर्थः। बाहुवर्तक इति। बहुवर्ते भव इत्यर्थः।