पूर्वम्: ४।२।१२६
अनन्तरम्: ४।२।१२८
 
सूत्रम्
नगरात् कुत्सनप्रावीण्ययोः॥ ४।२।१२७
काशिका-वृत्तिः
नगरात् कुत्सनप्रावीण्ययोः ४।२।१२८

नगरशब्दात् वुञ् प्रत्ययो भवति शैसिकः कुत्सने प्रावीण्ये च गम्यमाने। प्रत्ययार्थविशेषणं च एतत्, कुत्सने प्रावीण्ये च जातादौ प्रत्ययार्थ इति। कुत्सनं निन्दनम्। प्रावीण्यं नैपुण्यम्। केन अयं मुषितः पन्था गात्रे पक्षमालिधूसरः। इह नगरे मनुष्येण सम्भाव्यत एतन् नागरकेण। चोरा हि नागरका भवन्ति। केन इदं लिखितं चित्रं मनोनेत्रविकाशि यत्। इह नगरे मनुष्येण सम्भाव्यत एतन् नागरकेण। प्रवीणा हि नागरका भवन्ति। कुत्सनप्रावीण्ययोः इति किम्? नागरा ब्राह्मणाः। कत्र्यादिषु तु संज्ञाशब्देन साहचर्यात् संज्ञानागरं पठ्यते, तस्मिन् नागरेयकम् इति प्रत्युदाहार्यम्।
न्यासः
नगरात्कुत्सनप्रावीण्ययोः। , ४।२।१२७

"नागरा ब्राआहृणाः" इति। अण्। ननु च "नगर,माहिष्मती" ४।२।९४ इति नगरशब्दः कत्त्र्यादिषु पठ()ते, ततो ढकञा भवितव्यम्, तत्कथं नागरा इति प्रत्युदाह्यियत इत्याह-- "कत्त्र्यादिषु" इति। द्विविधो नगरशब्दः-- जातिवचनः, संज्ञावचनश्च। तयोः कत्त्र्यादिषु माहिष्मतीशब्देन साहचर्यात् संज्ञाशब्दः पठ()ते। तत्र जातिशब्दान्नागरा इति प्रत्युदाह्मतम्। संज्ञाशब्दे तु नागरेयक इति प्रत्युदाहत्र्तव्यम्॥
बाल-मनोरमा
नगरात्कुत्सनप्रावीण्ययोः १३३३, ४।२।१२७

नगरात्कुत्सन। नागरा ब्राआहृणा इति। कत्र्यादिषु माहिष्मतीसाहचर्येण संज्ञाभूतस्यैव नगरशब्दस्य ग्रहणम्। अतो न ढकञ्। "प्राचां ग्रामनगराणामि"ति सूत्रभाष्ये "नागरा" इत्युदाहरणात्।