पूर्वम्: ४।२।१२८
अनन्तरम्: ४।२।१३०
 
सूत्रम्
विभाषा कुरुयुगन्धराभ्याम्॥ ४।२।१२९
काशिका-वृत्तिः
विभाषा कुरुयुगन्धराभ्याम् ४।२।१३०

कुरु युगन्धर इत्येताभ्यां विभाषा वुञ् प्रत्ययो भवति शैषिकः। कौरवकः, कौरवः। यौगन्धरकः , यौगन्धरः। जनपदशब्दावेतौ, ताभ्याम् अवृद्धादपि इति नित्ये वुञि प्राप्ते विकल्प उच्यते। कुरुशब्दः कच्छादिष्वपि पठ्यते, तत्र वचनादणपि भविष्यति। सैषा युगन्धरार्था विभाष। मनुष्यतत्स्थयोः तु कुरुशब्दान् नित्य एव वुञ् प्रत्ययो भवति, कौरवको मनुस्यः, कौरवकमस्य हसितम् इति।
न्यासः
विभाषा कुरुयुगन्धाराभ्याम्। , ४।२।१२९

"सैषा युगन्थरार्था विभाषा" इति।न कुरुशब्दार्था। तत्र कच्छादिपाठाद्विनापि विभाषाग्रहणेनाणा भवितव्यम्। ननु युगन्धरशब्दादप्यणि "अवृद्धादपि बहुवचनविषयात्" ४।२।१२४ इति नित्यएव वुञि प्राप्ते वचननित्यार्थं भविष्यति, नित्ये हि वुञि पुनरारम्भोऽनर्थक- स्यात्, तस्माद्युगन्धरार्थाऽपि विभाषा न प्रसज्येत? नैतत् पुनरारम्भो विपर्ययेणापि शक्यते समर्थयितुम्। जनपदलक्षणो ४।२।१२३ यो वुञ् स विभाषा,अयं तु नित्य इति।अस्मात्तु युगन्धरार्थं विभाषाग्रहणं कत्र्तव्यम्। मनुष्यतत्स्थयोस्तु कुरुशब्दान्नित्य एव वुढ्भवति, कच्छादिषु पाठसामथ्र्यात्। अन्यथानयैव विभाषया वुञणोः सिद्धत्वात् कच्चादिपाठोऽर्थकः स्यात्; अनवकाशत्वात्॥
बाल-मनोरमा
विभाषा कुरुयुगन्धराभ्याम् १३३५, ४।२।१२९

विभाषा कुरु। कुरुयुगन्धरौ जनपदौ। अवृद्धाभ्यामपि ताभ्याम् "अवृद्धादपी"ति नित्यं प्राप्ते विकल्पः।

तत्त्व-बोधिनी
विभाषा कुरुयुगन्धराभ्याम् १०५९, ४।२।१२९

विभाषा कुरु। कुरुशब्दः कच्छादिषु पठ()ते, तत्सामथ्र्यात्पक्षेऽण्सिद्ध इति परिशेषाद्विभाषाग्रहणं युगन्धरार्थमेव। "अवृद्धादपी"ति नित्यप्राप्तो वुञनेन विकल्प्यते। मनुष्यतत्स्थयोस्तु परत्वान्नित्य एव वुञ्। कौरवको मनुष्यः। कौरवकमस्य हसितम्। एतदर्थमेवास्य कच्छादौ पाठः। अन्यथा अनयैव विभाषया वुञणोः सिद्धौ किं तेनेति भावः।