पूर्वम्: ४।२।१२९
अनन्तरम्: ४।२।१३१
 
सूत्रम्
मद्रवृज्योः कन्॥ ४।२।१३०
काशिका-वृत्तिः
मद्रवृज्योः कन् ४।२।१३१

मद्रवृजिशब्दाभ्यां कन् प्रत्ययो भवति शैषिकः। जनपदवुञो ऽपवादः। मद्रेसु जातः मद्रकः। वृजिकः।
न्यासः
मद्रवृज्योः कन्। , ४।२।१३०

"जनपदवुञोऽपवादः"इति। "अवृद्धादपि" ४।२।१२४ इत्यादिप्राप्तस्य। मद्रवृज्योः कन्निति ञ्यन्तस्य परनिपातः "द्वन्द्वे घि" २।२।३२ इत्यस्य विधेरनित्यत्वज्ञापनार्थम्। तेन धूमाग्नी इत्येवमादि सिद्धं भवति॥
बाल-मनोरमा
मद्रवृज्योः कन् १३३६, ४।२।१३०

मद्रवृज्योः कन्। मद्रो वृजिश्च जनपदविशेषः। जगपदवुञोऽपवादः।