पूर्वम्: ४।२।१३३
अनन्तरम्: ४।२।१३५
 
सूत्रम्
अपदातौ साल्वात्॥ ४।२।१३४
काशिका-वृत्तिः
अपदातौ साल्वात् ४।२।१३५

साल्वशब्दः कच्छादिसु पठ्यते, ततः पूर्वेण एव मनुस्यतत्स्थयोः वुञि सिद्धे नियमार्थं वचनम्। अपदातावेव मनुस्ये मनष्यस्थे च साल्वशब्दाद् वुञ् प्रत्ययो भवति। साल्वको मनुस्यः। सल्वकम् अस्य हसितम्, जल्पितम्। अपदातौ इति किम्? साल्वः पदातिर्व्रजति।
न्यासः
अपदातौ साल्वात्। , ४।२।१३४

"साल्वः" इति। कच्छादिपाठादण्॥
बाल-मनोरमा
अपदातौ साल्वात् १३४०, ४।२।१३४

अपदातौ साल्वात्। नियमार्थमिति। "साल्वाच्चेदपदातावेवेति नियमार्थमित्यर्थः।