पूर्वम्: ४।२।१३४
अनन्तरम्: ४।२।१३६
 
सूत्रम्
गोयवाग्वोश्च॥ ४।२।१३५
काशिका-वृत्तिः
गोयवग्वोश् च ४।२।१३६

गवि यवाग्वाम् च जातादौ प्रत्ययार्थे साल्वशब्दाद् बुञ् प्रत्ययो भवति शैसिकः। कच्छाद्यणो ऽपवादः। साल्वको गौः। साल्विका यवागूः। साल्वमन्यत्।
बाल-मनोरमा
गोयवाग्वोश्च १३४१, ४।२।१३५

गोयवाग्वोश्च। जातत्वादिना विवक्षितयोरित्यर्थः।