पूर्वम्: ४।२।१३६
अनन्तरम्: ४।२।१३८
 
सूत्रम्
गहादिभ्यश्च॥ ४।२।१३७
काशिका-वृत्तिः
गहाऽदिभ्यश् च ४।२।१३८

गह इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः छः प्रत्ययो भवति शैसिकः। अणादेरपवादः। गहीयः। अन्तःस्थीयः। देशाधिकारे ऽपि संभवापेक्षं विशेषणं, न सर्वेषाम्। मध्यमध्यमं चाण् चरणे इति पठ्यते, तस्यायमर्थः। मध्यशब्दः प्रत्ययसंनियोगेन मध्यमम् आपद्यते। मध्यमीयाः। चरणे तु प्रत्ययर्थे अण् भवति, माध्यमाः इति। तदेतद् विशेष एव स्मर्यते। पृथिवीमध्यस्य मध्यमभावः। चरणसम्बन्धेन निवासलक्षणो ऽणिति च। मुखपार्श्वतसोर् लोपश्च। मुखतीयम्। पार्श्वतीयम्। कुग्जनस्य परस्य च। जनकीयम्। परकीयम्। देवस्य च इति वक्तव्यम्। देवकीयम्। वेणुकादिभ्यश् छण् वक्तव्यः। आकृतिगणो ऽयम्। वैणुकीयम्। वैत्रकीयम्। औत्तरपदकीयम्। प्रास्थकीयम्। माध्यमकीयम्। गह। अन्तःस्थ। सम। विषम। मध्यमध्यमं चाण् चरणे। उत्तम। अङ्ग। वङ्ग। मगध। पूर्वप्क्ष। अपरपक्ष। अधमशाख। उत्तमशाख। समानशाख। एकग्राम। एकवृक्ष। एकपलाश। एष्वग्र। इष्वनी। अवस्यन्दी। कामप्रस्थ। खाडायनि। कावेरणि शैशिरि। शौङ्गि। आसुरि। आहिंसि। आमित्रि। व्याडि। वैदजि। भौजि। आढ्यश्वि। आनृशंसि। सौवि। पारकि। अग्निशर्मन्। देवशर्मन्। श्रौति। आरटकि। वाल्मीकि। क्षेमवृद्धिन्। उत्तर। अन्तर। मुखपार्श्वतसोर्लोपः। जनपरयोः कुक्च। देवस्य च। वेणुकादिभ्यश् छण्। गहादिः।
लघु-सिद्धान्त-कौमुदी
गहादिभ्यश्च १०८१, ४।२।१३७

गहीयः॥
बाल-मनोरमा
गहादिभ्यश्च १३४३, ४।२।१३७

गहादिभ्यश्च। गहीय इति। गहो देश विशेषः। मुखपार्(ोति। गहादिगणसूत्रम्। "मुखपार्(ो"ति लुप्तषष्ठीकं पदम्। तसन्तयोरेतयोरन्त्यस्य लोपश्च। चाच्छः। असम्भवादत्र जनपदस्येति न सम्बध्यते। कुग्जनस्येति। गणसूत्रमिदम्। जनशब्दस्य परशब्दस्य च कुगागमः स्यात्। चाच्छः। अत्रापि देश इति न सम्बध्यते। देवस्य च। इदमपि गणसूत्रम् चात्कुक्छश्च। "देवाद्यञञौ" इत्यस्यापवादः। "दैवानुग्रह" इति भाष्यप्रयोगाद्दैवमित्यपि साधु। स्वकीयमिति। गहादित्वाच्छः, कुक्च। स्वशब्दोऽपि गहादिः, आगमशास्त्रस्याऽनित्यत्वात्स्वीयम्।

तत्त्व-बोधिनी
गहादिभ्यश्च १०६१, ४।२।१३७

गहादिभ्यश्च। एभ्यो देशवाचिभ्यश्छः स्यात्। पूर्वरक्षादिशब्देभ्यस्तु देशवाचित्वाऽभावेऽपि पाठसामथ्र्याच्छः। मुखपार्(ातसोरिति। गणसूत्रमिदम्। सप्तम्यन्ताभ्यामाभ्यामाद्यादित्वात्तसिः। मुखतीयमिति। मुखे जातमित्याद्यर्थे तसन्ताच्छः। "अलोऽन्त्यस्ये"ति तसः सकारस्य लोपे "यस्येति चे"त्य कारलोपः। कुग्जनस्येति। इदमपि गणसूत्रम्। स्वकीयमिति। स्वार्थिककन्नन्तात्स्वशब्दाद्गहादेराकृतिगणत्वाच्छो देशवाचित्वाऽभावेऽपि पूर्वपक्षादिवद्बोध्यः। अत एव "लुब्योगाप्राख्याना"दिति सूत्रे "न हि स्वकीयस्यैव प्रत्याख्यान"मिति न्यासकारोक्तिः सङ्गच्छते। केवलास्त्वशब्दादणेव। सौवम्। द्वारादीनांचेत्यैच्। एतच्च "द्वारादीनां चे"त्यत्र आकरे उदाह्मतम्। "स्वीय"मित्यत्र तु "प्राक्क्रीत्ताच्छः"। अन्तरशब्दात्तु गहादित्वाच्छे तदन्तेन नशब्दस्य समासे स्वार्थे कनि च "नान्तरीयक"मिति भवति। अविनाभूतमित्यर्थः।