पूर्वम्: ४।२।१३९
अनन्तरम्: ४।२।१४१
 
सूत्रम्
वृद्धादकेकान्तखोपधात्॥ ४।२।१४०
काशिका-वृत्तिः
वृद्धादकैकान्तखौपधात् ४।२।१४१

देशे इत्येव। वृद्धाद् देशवाचिनः अक इक इत्येवम् अन्तात् खकारोपधाच् च प्रातिपदिकात् छः प्रत्ययो भवति शैसिकः। कोपधलक्षणस्य अणो ऽपवादः। वाहीकग्रामलक्षणस्य च प्रत्ययस्य, रोपधेतोः प्राचाम् ४।२।१२२ इति च। अकान्तात् तावत् आरीहणकीयम्। द्रौघणकीयम्। इकान्तात् आश्वपथिकीयम्। शाल्मलिकीयम्। खोपधात् कौटिशिखीयम्। आयोमुखीयम्। अकेकान्तग्रहणे कोपधग्रहणं सौसुकाद्यर्थम्। सौसुकीयम्। मौसुकीयम्। ऐन्द्रवेणुकीयम्।
न्यासः
वृद्धादकेकान्तखोपधात्। , ४।२।१४०

"कोपधलक्षणस्य च" इत्यादि। अकेकान्तात् "कोपधादण्" ४।२।१३१ इत्यणि प्राप्तेऽणोऽपवादः। कोपधादपि वाहीकग्रामलक्षणस्य ठ()ञो ञिठस्य च। "रोपधेतोः प्राचाम्" इति। "अकेकान्तग्रहणे कोपधग्रहणम्" इति। इह सूत्रेऽकेकान्तग्रहणमपनीय कोपधग्रहणं कत्र्तव्यम्। कोपधादित्येवं वक्तव्यमित्यर्थः
बाल-मनोरमा
वृद्धादकेकान्तखोपधात् १३४६, ४।२।१४०

वृद्धादकेकान्तखोपधात्। ब्राआहृणकीय इति। कोपधाऽणोऽपवादश्छः। शाल्मलिकीय इति। शाल्मलिको नाम देशः। तत्र भव इत्यर्थः। इकान्तोदाहरणमिदम्। कोपधाऽणपवादः। अयोमुखीय इति। "बाहीकग्रामेभ्यश्चे"ति ठञ्ञिठयोरपवादश्छः।

तत्त्व-बोधिनी
वृद्धादकेकान्तखोपधात् १०६२, ४।२।१४०

वृद्धादकेकान्त। ब्राआहृणकीय इति। "कोपधाद"णित्यण्प्राप्तः। अयोमुखीयमिति। वाहीकग्रामलक्षणौ ठञ्ञिठाविह प्रातौ।