पूर्वम्: ४।२।१४०
अनन्तरम्: ४।२।१४२
 
सूत्रम्
कन्थापलदनगरग्रामह्रदोत्तरपदात्॥ ४।२।१४१
काशिका-वृत्तिः
कन्थापलदनगरग्रामह्रदौत्तरपदात् ४।२।१४२

देशे इत्येव, वृद्धातिति च। कन्थाद्युत्तरपदाद् देशवाचिनो वृद्धात् प्रातिपदिकाच् छः प्रत्ययो भवति शैषिकः। वाहीकग्रमादिलक्षणस्य प्रत्ययस्य अपवादः। दाक्षिकन्थीयम्। माहिकिकन्थीयम्। दाक्षिपलदीयम्। माहिकिपलदीयम्। दाक्षिनगरीयम्। माहिकिनगरीयम्। दाक्षिग्रामीयम्। माहिकिग्रामीयम्। दाक्षिह्रदीयम्। माहिकिह्रदीयम्।
न्यासः
कन्थापलदनगरग्रामह्वदोत्तरपदात्। , ४।२।१४१

"वाहीकग्रामलक्षणस्य" इति। ठञ्ञिठयोश्च। अन्तग्रहणेनैव सिद्ध सत्त्युत्तरपदग्रहणं वैचित्र्यार्थम्॥
बाल-मनोरमा
कन्थापलदनगरग्रामह्यदोत्तरपदात् १३४७, ४।२।१४१

कन्थापलद। ठञ्ञिठादेरपवाद इति। नगरान्ते "रोपधेतो"रिति वुञोऽपवादः। इतरत्र "बाहीकग्रामेभ्यश्चे"ति ठञ्ञिठयोरपवाद इति विवेकः।

तत्त्व-बोधिनी
कन्थापलदनगरग्रामह्यदोत्तरपदात् १०६३, ४।२।१४१

ठञ्ञिठादेरिति। आदिशब्देन "रोपधेतोः"इत्यादिना प्राप्तस्य वुञः।