पूर्वम्: ४।२।१४१
अनन्तरम्: ४।२।१४३
 
सूत्रम्
पर्वताच्च॥ ४।२।१४२
काशिका-वृत्तिः
पर्वताच् च ४।२।१४३

पर्वतशब्दाच् छः प्रत्ययो भवति शैषिकः। अणो ऽपवदः। पर्वतीयो राजा। पर्वतीयः पुरुषः।
न्यासः
पर्वताच्च। , ४।२।१४२

बाल-मनोरमा
पर्वताच्च १३४८, ४।२।१४२

पर्वताच्च--इत्यादि स्पष्टम्। युष्मदस्मदो। युष्मदस्मच्छब्दयोरिह शब्दस्वरूपपरत्वात् "त्यदादीनि सर्वैर्नित्य"मित्येकशेषो न भवति। पञ्चम्यर्थे षष्ठी। युष्मच्छव्दादस्मच्छब्दाच्च जाताद्यर्थेषु खञ्स्यादित्यर्थः। चाच्छः। गर्तोत्तरपदादित्यधिकृतः छश्चकारेण समुच्चीयत इत्यर्थः।

तत्त्व-बोधिनी
पर्वताच्च १०६४, ४।२।१४२

पर्वतीय इति। "तत्र जन्यं रघोर्घोरं पार्वतीयैर्गणैरभू"दित्यत्र तु "पर्वतीयस्य राज्ञ इमे" इत्यर्थे छान्तादण्।