पूर्वम्: ४।२।१९
अनन्तरम्: ४।२।२१
 
सूत्रम्
साऽस्मिन् पौर्णमासीति (संज्ञायाम्)॥ ४।२।२०
काशिका-वृत्तिः
सा ऽस्मिन् पौर्णमासी इति संज्ञायाम् ४।२।२१

सा इति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत् तत् प्रथमासमर्थं पौर्णमासी चेद् भवति। इतिकरणः ततश्चेद् विवक्षा भवति। संज्ञायाम् इति समुदायोपाधिः, प्रत्ययान्तेन चेत् संज्ञा गम्यते इति। मासार्धमाससंवत्सराणाम् एषा संज्ञा। पौषी पौर्णमासी अस्मिन् पौषो मासः। पौषो ऽर्धमासः। पौषः संवत्सरः। इह न भवति, पौषी पौर्णमासी अस्मिन् दशरात्रे इति। भृतकमासे च न भवति। इतिकरणस्य संज्ञाशब्दस्य च तुल्यम् एव फलं प्रयोगानुसरणं, तत्र किमर्थं द्वयम् उपादीयते? संज्ञाशब्देन तुल्यताम् इति करणस्य ज्ञापयितुं, न ह्ययं लोके तथा प्रसिद्धः। संज्ञार्थत्वे तु सम्प्रति ज्ञापिते यत् तत्र तत्र उच्यते इतिकरणस् ततश्चेद् विवक्षा इति तदुपपन्नं भवति। अथ पौर्णमासी इति को ऽयं शब्दः। पूर्णमासादण् पौर्णमासी। अथवा पूर्णो माः पूर्णमाः, पूर्णमास इयं पौर्णमासी। मा इति चन्द्र उच्यते।
न्यासः
सास्मिन्पौर्णमासीति संज्ञायाम्। , ४।२।२०

"ततश्चेद्विवक्षा भवति" इति। तत इति प्रत्ययान्तो निर्दिश्यते। एतदुक्तं भवति-- यदि प्रत्ययान्ताल्लोकेऽस्य विवक्षा भवत्येवं प्रत्ययो भवति; नान्यथेत्यर्थः। "प्रत्ययान्तेन च" इत्यादिना संज्ञायाः समुदायोपाधित्वं स्पष्टीकरोति। "एषा संज्ञा" इति। या प्रत्ययान्तेन गम्यते। "पौषी" इति। "नक्षत्रेण युक्तः कालः" ४।२।३ इत्यण्, तदन्तान्ङीप्। "इह न भवति" इति। संज्ञाया अनवगम्यमानत्वात्। न हि दशरात्रस्य प्रत्ययान्ताः संज्ञा, नापि भृतकमासस्य। किं तत् तुल्यं फलमित्याह-- "प्रयोगानुसरणम्" इति। प्रयोगानुसरणं प्रयोगोपलक्षणमित्यर्थः। संज्ञाग्रहणे ह्रेतत् क्रियते-- प्रयोगमुपलक्ष्य यत्र प्रयोगो दृश्यते मासार्धमाससंवत्सरेषु तत्र प्रत्यय उत्पादयितुव्यः, न तु भृतकमासादौ। इति करणेनाप्येतदेव क्रियते। तथा हि-- प्रत्ययान्ताद्यदि लोकस्यार्थविवक्षा भवति, एवं हि प्रत्यय उत्पादयितव्यः, नान्यथेति। एवमर्थमितिकरण उपादीयते, ततश्च लोकविवक्षा मासार्धमाससंवत्सरविषया भवति, एवं हि न भृतकमासादिविषया। तस्मात् प्रोयगानुसरणम्, उभयोरपि फलं तुल्यमेव। "संज्ञा" इत्यादि। ननु च यथा संज्ञाशब्दः प्रयोगानुसरणफलतया लोके प्रसिद्धः, तथेतिकरणोऽपि, तत्किमर्थमिह तस्य तेन तुल्यत्वमेव ज्ञायते? इत्याह--- "न ह्रयम्" इत्यादि। तथा हि-- लोकेऽयं संज्ञाशब्दः प्रयोगानुसरणफलत्वेन यथा प्रसिद्धः, न तथेतिकरणः। तस्मादस्य तेन तुल्यता ज्ञापितेति भावः। "संज्ञार्थत्वेट इत्यादिना ज्ञापनस्य प्रयोजनं दर्शयति। संज्ञया तुल्योऽर्थो यस्य स संज्ञार्थः। समासेन गम्यमानत्वात् तुल्यशब्दो न प्रयुज्यते, यथा "रुच्यर्थानाम्" १।४।३३ इत्यत्र रुचिना समानशब्द इति भावः। संज्ञार्थस्य भावः = संज्ञार्थत्वम्। अर्थशब्दश्चायं प्रयोजनवचनः। "तदुपपन्नं भवति" इति। यत एव संज्ञाशब्देनेतिकरणस्य तुल्यार्थता ज्ञापिता तेन यत्र यत्र प्रयोगानुसारणार्थं इतिकरणः, ततस्ततश्च विवक्षा भवतीत्युच्यते-- तदुपपन्नं भवतीति; इतकरणस्य संज्ञाप्रयोजनत्वात्। "पूर्णमासादण्" इति। पूर्णो मासो यस्यं तिथाविति तत्रार्थे बहुव्रीहिः। अस्मादेव निपतानादण्। पूर्णमासस्येयं "पौर्णमासी"। "तस्येदम्" ४।३।१२० इत्यण्। तिथिविशेषस्येयं संज्ञा। व्यत्पत्तिस्तु यथाकथञ्चित् कत्र्तव्याः॥
बाल-मनोरमा
क्षीराड्ढञ् १२०३, ४।२।२०

सोमे मत्तेर् मिस्सिन्ग्।

बाल-मनोरमा
सास्मिन्पौर्णमासीति १२०४, ४।२।२०

सोमे मत्तेर् मिस्सिन्ग्-----चोन्तिनुए---इतिशब्दादिति। एतच्च भाष्ये स्थितम्। पौषीति। पुष्येण युक्ता पौषी पौर्णमासी, सा यस्मिन्मासे स पौषो मासः। पौषीशब्दादणि "यस्येति चे"ति ईकारलोपः। एवं मघाभिर्युक्ता पौर्णमासी माघी, सा यस्मिन्स माघो मासः। तथा फाल्गुन इत्यादि। संज्ञायां किम्?। पौषी पौर्णमासी अस्मिन्पञ्चदशरात्रे।

तत्त्व-बोधिनी
सास्मिन्पौर्णमासीति ९९५, ४।२।२०

सास्मिन्। सेति प्रथमान्तदस्मिन्निति सप्तम्यन्तार्थे प्रत्ययः स्याद्यः प्रथमान्तार्थः स चेत्पौर्णमसी भवनति। इतिशब्दादिति। स हि लौकिर्की विवक्षामनुसारयति। वृत्तिकृता तु सूत्रे एव "संज्ञाया"मिति प्रक्षिप्तम्। पौर्णमासीति। पूर्णो मासोऽस्यां तिथाविति बहुव्रीहौ प्रज्ञादित्वात्स्वार्थिकोऽणीति हरदत्तादयः। "तदस्मिन्वर्तते"इत्यधिकारे "पूर्णमासादण् वक्तव्यः"इति वार्तिकं न कर्तव्यमिति तदाशयः