पूर्वम्: ४।२।२४
अनन्तरम्: ४।२।२६
 
सूत्रम्
शुक्राद्घन्॥ ४।२।२५
काशिका-वृत्तिः
शुक्राद् घन् ४।२।२६

शुक्रशब्दात् सा ऽस्य देवता इत्यसिन्न्नर्थे घन् प्रत्ययो भवति। अणो ऽपवादः। शुक्रियं हविः। शुक्रियो ऽध्यायः।
लघु-सिद्धान्त-कौमुदी
शुक्राद्घन् १०४५, ४।२।२५

शुक्रियम्॥
न्यासः
शुक्राद्घन्। , ४।२।२५

बाल-मनोरमा
शुक्राद्धन् १२०९, ४।२।२५

शुक्राद्धन्। "साऽस्य देवता" "इत्यर्थे" इति शेषः। शुक्रियमिति। शुक्रो देवता अस्येति विग्रहः।