पूर्वम्: ४।२।२६
अनन्तरम्: ४।२।२८
 
सूत्रम्
छ च॥ ४।२।२७
काशिका-वृत्तिः
छ च ४।२।२८

अपोनप्तृ अपांनप्तृ इत्येताभ्यां छकारः प्रत्ययो भवति सा अस्य देवता इति यस्मिन् विषये। अणो ऽपवादः। अपोनप्त्रीयं हविः, अपांनप्त्रीयम्। योगविभागः सङ्ख्यातानुदेशपरिहारार्थः। छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसङ्ख्यानम्। पैङ्गाक्षीपुत्रीयम्। तार्णबिन्दवीयम्। शतरुद्राच्छश्च घश्च। शतरुद्रीयम्, शतरुद्रियम्।
न्यासः
छ च। , ४।२।२७

अथ किमर्थं योगविभागः क्रियते, न "अपोनप्तृ-- अपान्नप्तृभ्यां घच्छौ" इत्येकयोग एव क्रियते? इत्याह-- "योगविभागः" इत्यादि। एकयोगे हि द्वे प्रकृती, प्रत्ययावपि द्वावेव, समसंख्यत्वात् संख्यातानुदेशः स्यात्, अतस्तन्निवृत्तये योगविभागः क्रियते। "छ प्रकरणे" इत्यादि। पैङ्गाक्षीपुत्रादिभ्यश्छप्रकरणे छस्योपसंख्यानम् = प्रतिपादनं कत्र्तव्यम्। तत्रेदं प्रतिपादनम्-- चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः , तेन पैङ्गाक्षीपुत्रादिभ्यश्छो भवतीति॥
बाल-मनोरमा
छ च १२११, ४।२।२७

छ च। उक्तविषये छोऽपीत्यर्थः। "ननु अपोनप्त्रपांनप्तृभ्यां" घच्छौ इत्येवास्तु। तत्राह--योगविभाग इति। पैङ्गाक्षीपुत्रीयमिति। पैङ्गाक्षीपुत्रो देवता अस्येति विग्रहः। तार्णविन्दवीयमिति। तार्णविन्दुर्देवता अस्येति विग्रहः।

शतरुद्राद्धश्चेति। वार्तिकमिदम्। शतरुद्रियमिति। घस्य इयादेश। शतरुद्रीयमिति। छस्य ईयादेशः। उभयत्र "तद्धितार्थ" इति द्विगुसमासः। "द्विगोर्लुगपत्ये" इति लुकमाशङ्क्याह--घच्छयोरिति।