पूर्वम्: ४।२।२८
अनन्तरम्: ४।२।३०
 
सूत्रम्
सोमाट्ट्यण्॥ ४।२।२९
काशिका-वृत्तिः
सोमाट् ट्यण् ४।२।३०

सोमशब्दात् ट्यण् प्रत्ययो भवति सा ऽस्य देवता इत्यस्मिन् विषये। अणो ऽपवादः। णकारो वृद्ध्यर्थः। टकारो ङीबर्थः। सोमो देवता अस्य सौम्यं हविः। सौम्यं सूक्तम्। सौम्यी ऋक्।
लघु-सिद्धान्त-कौमुदी
सोमाट्ट्यण् १०४६, ४।२।२९

सौम्यम्॥
न्यासः
सोमाट्ट�ण्। , ४।२।२९

"सौमी" इति। "हलस्तद्धितस्य" ६।४।१५० इति यलोपः॥
बाल-मनोरमा
सोमाट्ट�ण् १२१३, ४।२।२९

सोमाट्ट()ण्। सौम्यमिति। सोमो देवता अस्येति विग्रहः। टित्त्वस्य प्रयोजनमाह--टित्त्वान्ङीबिति। सौमीति। सोमो देवता अस्या ऋच इति विग्रहः।ङीपि "हलस्तद्धितस्ये"ति यलोपः।