पूर्वम्: ४।२।२९
अनन्तरम्: ४।२।३१
 
सूत्रम्
वाय्वृतुपित्रुषसो यत्॥ ४।२।३०
काशिका-वृत्तिः
वाय्वृतुपित्रुषसो यत् ४।२।३१

वाय्वादिभ्यः शब्देभ्यः यत् प्रत्ययो भवत् सा ऽस्य देवता इत्येतस्मिन् विषये। अणो ऽपवादः। वायुः देवता अस्य वायव्यम्। ऋतव्यम्। पित्र्यम्। उषस्यम्।
लघु-सिद्धान्त-कौमुदी
वाय्वृतुपित्रुषसो यत् १०४७, ४।२।३०

वायव्यम्। ऋतव्यम्॥
न्यासः
वाय्वृतुपित्रुषसो यत्। , ४।२।३०

"वायव्यम्। ऋतव्यम्" इति। "ओर्गुणः" ६।४।१४६,"वान्तो यि प्रत्यये" ६।१।७६ इत्यवादेशः। "पित्र्यम्" इति। "रीङृतः" ७।४।२७ इति रीङ्, यस्येति ६।४।४९ लोपः॥
बाल-मनोरमा
वाय्वृतुपित्रुषसो यत् १२१४, ४।२।३०

वाय्वृतुपित्रुषसो यत्। वायु, ऋतु, पितृ,उषस् एभ्यो यदित्यर्थः। वायव्यमिति। वायुर्देवता अस्येति विग्रहः। यति ओर्गुणः। "वान्तो यी"त्यवादेशः। ऋतव्यमिति। ऋतुर्देवता अस्येति विग्रहः।