पूर्वम्: ४।२।३०
अनन्तरम्: ४।२।३२
 
सूत्रम्
द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पति- गृहमेधाच्छ च॥ ४।२।३१
काशिका-वृत्तिः
द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच् छ च ४।२।३२

द्यावापृथिव्यादिब्भ्यः छः प्रत्ययो भवति सा ऽस्य देवता इत्यस्मिन् विषये, चकाराद् यच् च। अणो ण्यस्य च अपवादः। द्यौश्च पृथिवी च द्यावापृथिव्यौ देवते अस्य द्यावापृथिवीयम्, द्यावापृथिव्यम्,। शुनश्च सीरश्च तौ देवते अस्य इति शुनासीरीयम्, शौनासीर्यम्। शुनो वायुः। सीरः आदित्यः। मरुत्वान् देवता अस्य मरुत्वतीयम्, मरुत्वत्यम्। अग्नीषोमीयम्, अग्नीशोम्यम्। वास्तोष्पतीयम्, वास्तोष्पत्यम्। गृहमेधीयम्, गृहमेध्यम्।
न्यासः
द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च। , ४।२।३१

"अणो ण्यस्य चापवादः" इति। वास्तोष्पतिशब्दात् "दित्यदित्यादिभ्य" ४।१।८५ इत्यादिना प्राप्तस्य ण्य्स्यापवादः। शेषेभ्यस्त्वौत्सर्गिकस्याणः। वास्तुनः पतिर्वास्तोष्पत्तिः। वास्तुशब्दस्य नपुंसकस्य पुंल्लिङ्गता, षष्ठ()र्थेऽलुक् च निपातनात्। "षष्ठ्याः पतिपुत्रपृष्ठ" ८।३।५३ इत्यादिना षत्वम्। "द्यावापृथिव्यौ" इति। "दिवो द्यावा" ६।३।२८ इति द्यावादेशः। "शुनासीरीयम्" इति। "देवताद्वन्द्वे च" ६।३।२५ इत्यानङ्। "अग्नीषोमीयम्" इति। "ईदग्नेः सोमवरुणयोः" ६।३।२६ इतीत्त्वम्; "अग्नेः स्तुत्स्तोमसोमाः" ८।३।८२ इति षत्वम्॥
बाल-मनोरमा
द्यावापृथिवीशुनासीरमरुत्वदग्नोषीमवास्तोष्पतिगृहमेधाच्छ च १२१६, ४।२।३१

द्यावापृथिवीयं द्यावापृथिव्यमिति। द्यावापृथिवी देवता अस्येति विग्रहः। छस्य ईयादेशः। उभयत्र "यस्येति चे"ति लोपः। शुनासीरीयमिति। शुनो वायुः, सीरः आदित्यः। शुनश्च सीरश्च शुनासीरौ। "देवताद्वन्द्वे चे"त्यानङ्। शुनासीरावस्य स्त इति शुनासीरः। "वाय्यादित्यवानिन्द्रो विवक्षितः" इति वेदभाष्ये भट्टभास्करः। शुनासीरो देवता अस्येति विग्रहः। मरुत्वान् देवता अस्य मरुत्वतीयं मरुत्वत्यम्। अग्नीषोमौ देवता अस्य अग्नीषोमीयम् अग्निषोम्यम्।वास्तुनः पतिः वास्तोष्पतिः-रुद्रः। निपातनादलुक् षत्वं च। "रुद्रः खलु वै वास्तोष्पतिः" इति ब्राआहृणम्। अमरस्तु इन्द्रपर्याये "वास्तोष्पतिः सुरपति"रित्याह वास्तोऽपतिर्देवता अस्य वास्तोष्पतीयं, वास्तोष्पत्यम्। गृहमेधो देवता अस्य "गृहमेधीयम्। गृहमेध्यम्।

तत्त्व-बोधिनी
द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च ९९९, ४।२।३१

द्यावापृ। अण्ण्यञोरपवादः। शुनासीरीयमिति। शुनश्च सूरश्चेति द्वन्देव"देवताद्वन्द्वि चे"त्यानङ्। शुनो--वायुः, सीरः--आदित्य इति वृत्तिकृत्। हरदत्तस्तु सुनासीरशब्द इन्द्रस्य गुणवाचीत्यन्ये मन्यन्त इत्याह। तथा च मन्त्रः--"इन्द्रं वयं सुनासीरमस्मिन्यज्ञे हवामहे"इति। मरुतोऽस्य सन्तीति मरुत्वानिन्द्रः, मरुत्वतीयं। मरुत्वत्यम्। अग्निषोमीयम्। "ईदग्नेः सोमवरुणयोः"। वास्तुनः पतिः वास्तोष्पतिः। इहैव सूत्रे निपातनात्साधुः। "वेश्मभूर्वास्तुरस्त्रियाम्"। वास्तोष्पतीयं वास्तोष्पत्यम्। गृहमेधीयं। गृहमेध्यम्। गृहमेधशब्दोऽकारान्तः। तथा च आ()आलायनः---"मरुभ्द्यो गृहमेधेभ्यः"इति।