पूर्वम्: ४।२।३४
अनन्तरम्: ४।२।३६
 
सूत्रम्
पितृव्यमातुलमातामहपितामहाः॥ ४।२।३५
काशिका-वृत्तिः
पितृव्यमातुलमातामहपितामहाः ४।२।३६

पितृव्यादयो निपात्यन्ते। समर्थविभक्तिः, प्रत्ययः, प्रत्ययार्थो ऽनुबन्धः इति सर्वं निपातनाद् विज्ञेयम्। पितृमातृभ्यां भ्रातर्यभिधेये व्यत् डुलचित्येतौ प्रत्ययु निपात्येते। पित्रुर् भ्राता पितृव्यः। मातुर् भ्राता मातुलः। ताभ्यां पितरि डामहच् मातरि षिच्च। ताभ्याम् एव पितरि डामहच् प्रत्ययो भवति। पितुः पिता पितामहः। मातुः पिता मातामहः। मातरि षिच्च। पितामही। मातामही। अवेर्दुग्धे सोढदूसमरीसचो वक्तव्याः। अवेर्दुग्धम् अविसोढम्, अविदूसम्, अविमरीसम्। तिलान्निष्फलात् पिञ्जपेजौ प्रत्ययौ वक्तव्यौ। निष्फलस्तिलः तिलपिञ्जः, तिलपेजः। पिञ्जश्छन्दसि डिच्च। तिल्पिञ्जं दण्डनं नडम्।
लघु-सिद्धान्त-कौमुदी
पितृव्यमातुलमातामहपितामहाः १०४९, ४।२।३५

एते निपात्यन्ते। पितुर्भ्राता पितृव्यः। मातुर्भ्राता मातुलः। मातुः पिता मातामहः। पितुः पिता पितामहः॥
न्यासः
पितृव्यमातुमातामहपितामहाः। , ४।२।३५

"पितामही,मातामही" इति। "षिद्गौरादिभ्यश्च" ४।१।४१ इति ङीष्॥
बाल-मनोरमा
पितृव्यमातुलमातामहपितामहाः १२२४, ४।२।३५

पितृव्यमातुल। कस्मिन्नर्थे किं निपात्यते इत्यत आह--पितुभ्र्रातरि व्यदित्यादिना।

मातुल इति। मातृशब्दाड्डुलचि "टे" इति टिलोपः। मातामह इति। मातृशब्दाड्डमहचि टिलोपः। एवं पितामहः।

मातरि षिच्चेति। मातृपितृभ्यां मातरि डामहच्, स च षिद्भवतीत्यर्थः। षित्त्वफलं ङीषित्याह--मातामही पितामहीति।

अवेरिति। अवोर्दुग्धमित्यर्थे अविशब्दात् सोढः, दूस, मरीसच् एते प्रत्यया वक्तव्या इत्यर्थः। सोढसकारस्य प्रत्यटयावयवत्वात्षत्वमाशङ्क्याह--सकारापाठसामथ्र्यान्न ष इति। अन्यथा षोढ इत्येवोपदिशेदिति भावः।

तिलादिति। तिलशब्द ओषदिविशेषे मुख्य। तत्फले तु गौणः। तत्र यदा तिलशब्दो निष्फले आषधिविशेषे वर्तते, तदा तस्मात्स्वार्थे पेज, पिञ्ज इति प्रत्ययौ स्त इत्यर्थः। इति देवतार्थकाः।