पूर्वम्: ४।२।३७
अनन्तरम्: ४।२।३९
 
सूत्रम्
गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्स- मनुष्याजाद्वुञ्॥ ४।२।३८
काशिका-वृत्तिः
गोत्रौक्षौष्ट्रौरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद् वुञ् ४।२।३९

गोत्रादिभ्यो वुञ् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते ऽपत्यमात्रं, न तु पौत्रप्रभृत्येव। औपगवानां समूहः औपगवकम्। कापटवकम्। उक्षन् औक्षकम्। उष्ट्र औष्ट्रकम्। उरभ्र औरभ्रकम्। राजन् राजकम्। राजन्य राजन्यकम्। राजपुत्र राजपुत्रकम्। वत्स वात्सकम्। मनुष्य मानुष्यकम्। अज आजकम्। प्रकृत्या ऽके राजन्यमनुष्ययुवानः इति यलोपो न भवति, आपत्यसय् च तद्धिते ऽनाति ६।४।१५१ इति। वृद्धाच्चेति वक्तव्यम्। वृद्धानां समूहो वार्धकम्।
न्यासः
गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्?वुञ्। , ४।२।३८

"अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्रते" इति। यद्येवम्, गोत्रग्रहणेनैतस्य सिद्धत्वाद्राजन्यमनुष्ययोरुपादानमनर्थकम्? नैतदस्ति; न हि तौ गोत्रप्रत्ययान्तौ, जातेः प्रत्ययार्थत्वात्। यद्येवम्, लोपस्य प्राप्तिरेव नास्ति, तत्र यदुक्तम्-- "प्रकृत्याके राजन्यमनुष्ययुवानः" (वा।८१४) इति यलोपो न भवतीति, तदनर्थकं स्यात्? एतत् पुनरेकीयमतमाश्रित्योक्तम्। केचिदाचार्या राजन्यमनुष्ययोरपत्यप्रत्ययान्तत्वमिच्छन्ति, अतस्तन्मतमाश्रित्यैदुक्तमित्यदोषः, तन्मतेन तर्हि राजन्यमनुष्ययोग्र्रहणमनर्थकं स्यात्? ज्ञापनार्थत्वात्। तेनैतद्ज्ञाप्यते-- राजन्यमनुष्ययोर्यकारसय् किञ्चिदपत्याश्रितं कार्यं न भवतीति। किं पुनस्तत्? आपत्यव्यपदेशम्। तेन राजन्यकम्, "मानुष्यकमिति -- अत्रापि "आपत्यस्य च तद्धितेऽनाति" ६।४।१५१ इति यलोपो न भवतीति। तथा सूत्रोपात्त एव राजन्यमनुष्ययोः प्रकृतिभावः "प्रकृत्याके राजन्यमनुष्ययुवानः" (वा।८१४) इत्यनेनाख्यायत इति वेदितव्यम्। "वृद्धाच्चेति वक्तव्यम्" इति। वृद्धश्बदाद्()वुञ् भवतीत्येदर्थमित्यर्थः। तत्रेदं व्याख्यानम्-- इह पुनरुत्तरसूत्राच्चकारोऽनुवत्र्तते सिंहावलोकितन्यायेन, स चानुक्तसमुच्चयार्थः, तेन वृद्धशब्दाद्()वुञ् भवतीति। योगश्चायं यथायोगमणञोरपवादः॥
बाल-मनोरमा
गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् १२२८, ४।२।३८

गोत्रोक्षोष्ट्रो। एभ्य इति। गोत्र, उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज-एतेब्य इत्यर्थः लौकिकमिह गोत्रमिति। नतु पारिभाषिकमित्यर्थः। अत्र लौकिकं गोत्रं किमित्यत आह--तच्चापत्यमात्रमिति। प्रवराध्याये परिगणितं पुत्रपौत्रादि कृत्स्नापत्यमित्यर्थः। "अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्रते, नतु पारिभाषिकं गोत्रमिष्यते" इति "स्त्रीपुंसाभ्या"मित्यादिसूत्रबाष्ये सिद्धान्तितत्वादिति भावः।