पूर्वम्: ४।२।३८
अनन्तरम्: ४।२।४०
 
सूत्रम्
केदाराद्यञ् च॥ ४।२।३९
काशिका-वृत्तिः
केदाराद् यञ् च ४।२।४०

केदारशब्दाद् यञ् प्रत्ययो भवति, चकाराद् वुञ् च, तस्य समूहः इत्येतस्मिन् विषये। अचित्तलक्षनस्य ठकः अपवादः। केदाराणाम् समूहः कैदार्यम्, कैदारकम्। गणिकायाश्च यज् वक्तव्यः। गनिकानां समूहः गाणिक्यम्।
न्यासः
केदाराद्यञ्च। , ४।२।३९

"गणिकायाश्च यञ्वक्तव्यः" (इति) वक्तव्यो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- इहाप्युत्तरसूत्राच्चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः, तेन गणिकाशब्दादपि यञ् भवतीति, वुञ् न भवतीति, अनभिधानात्॥
बाल-मनोरमा
केदाराद्यञ्च १२३०, ४।२।३९

केदराद्यञ् च। कैदार्यम्-कैदारकमिति। केदाराणां समूह इति विग्रहः।

गणिकाया यञ्। यञ्ग्रहणाद्वुञो निवृत्तिः। गाणिक्यमिति। गणिकानां समूह इति विग्रहः।