पूर्वम्: ४।२।३९
अनन्तरम्: ४।२।४१
 
सूत्रम्
ठञ् कवचिनश्च॥ ४।२।४०
काशिका-वृत्तिः
ठञ् कवचिनश् च ४।२।४१

कवचिन् शब्दात् ठञ् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। कवचिनाम् समूहः कावचिकम्। चकारः केदारातित्यस्य अनुकर्षणार्थः। केदाराणां समूहः कैदारिकम्।
न्यासः
उञ् कवचिनश्च। , ४।२।४०

कवचिञ्शब्दो मत्वर्थीयेनिप्रत्ययान्तः,प्रत्ययस्वरेणान्तोदात्तः। तस्मादनुदात्तादि ४।२।४३ लक्षणेऽञि प्राप्ते वचनम्॥
बाल-मनोरमा
ठञ्कवचिनश्च १२३१, ४।२।४०

ठञ्कवचिनश्च। केदारादपीति। कवचिन्शब्दात्केदारशब्दाच्च समूहे ठञ् स्यादित्यर्थः। कावचिकमिति। ठञ्, इकादेशे टिलोपः।