पूर्वम्: ४।२।४०
अनन्तरम्: ४।२।४२
 
सूत्रम्
ब्राह्मणमाणववाडवाद्यन्॥ ४।२।४१
काशिका-वृत्तिः
ब्राह्मणमाणववाडवाद् यन् ४।२।४२

ब्राह्मणादिभ्यः शब्देभ्यो यन् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। नकारः स्वरार्थः। ब्राह्मणानां समूहः ब्राह्मण्यम्। माणव्यम्। वाडव्यम्। यन्प्रकरणे पृष्ठादुपसङ्ख्यानम्। पृष्ठानां समूहः पृष्ठ्यः। अह्नः खः क्रतौ। अह्णां समूहः अहीनः क्रतुः। क्रतौ इति किम्? आह्नः। खण्डिकादिषु दर्शनादञ् भवति। पर्श्वा णस् वक्तव्यः। पर्शूनां समूहः पार्श्वम्। पदसंज्ञकत्वाद् गुणो न भवति। वातादूलः। वातानां समूहः वातूलः।
न्यासः
ब्राआहृणमाणववाडवाद्यन्। , ४।२।४१

"पृष्टादुपसंख्यानम्" इति। पृष्ठशब्दाद्यन्प्रत्ययस्योपसंख्यानम् = व्याख्यानं कत्र्तव्यमित्यर्थः। तत्रेदं व्याख्यानम्-- पूर्वसूत्रादिह चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः, तेन पृष्ठशब्दादपि भविष्यतीति। "अहीनः" इति। "अह्नष्टखोरेव"६।४।१४५ टिलोपः। "आह्नः" इति। "अल्लोपोऽनः" ६।४।१३४ इत्यकारलोपः। ननु चाचित्तलक्षणेन ठका भवितव्यम्, तत्कथमाह्न इति भवति? इत्याह-- "खण्डिकादिषु " इत्यादि। "णस्वक्तव्यः" इति। सकारः "सिति च" १।४।१६ इति विशेषणार्थः। तेन पार्(ामित्यत्र भत्वाभावात् "ओर्गुणः" ६।४।१४६ न भवति॥
बाल-मनोरमा
ब्राआहृणमाणववाडवाद्यन् १२३२, ४।२।४१

ब्राआहृणमाणव। ब्राआहृण्यमित्यादि। ब्राआहृणानां माणवानां बाडबानां च समूह इति विग्रहः। मनोरपत्यं माणवः। अणि नस्य णत्वम्। "अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्यस्तेनसिध्यति माणवः" इति "मनोर्जातावञ्यतौ षुक्च" इति सूत्रे भाष्यम्।

पृष्ठादिति। "यन" इति शेषः। पृष्ठ्यः षडह इति। षष्ण्णामह्नां समाहारः षडहः। समाहारे द्विगुः। "राजाहः सखिभ्यः" इति टचि टिलोपः। रथन्तरबृहद्रौरूपवैराजशाक्वररैवताख्यानि षट् पृष्ठाख्यस्तोत्राणि। तद्युक्तान्यहानि लक्षणया पृष्ठानि, तेषां समूह इति विग्रहः।

तत्त्व-बोधिनी
ब्राआहृणमाणववाजवाद्यन् १००५, ४।२।४१

ब्राआहृणमाणव। ननु त्रयोऽप्यमी वृद्धाः। तेभ्यः प्रकृतो यञेवास्तु, वृद्धाद्यनि यञि वा रूपे विशेषऽभावात्। नापि स्वरे विशेषः, उभयथाप्युदात्तत्वात्। स्त्रिया विशेषस्तु न शङ्क्य एव, नपुंसकत्वात्। "यञश्चे"त्यत्रापत्यग्रहणाच्च। ठञ् तु नानुवर्तिष्यते, अस्वरितत्वादिति, चेत्। सत्यम्। अवृद्धादपि कृतश्चिद्विधानार्थं यन्वचनम्। तत्सिद्धार्थानुवादकं वार्तिकमाह--।

पृष्ठादुपसङ्ख्यानम्। पुष्ठादिति। पृष्ठं--स्तोत्रविशेषः। पष्ट() इति। पृष्टानां समूहः। "पृष्ठ्यः षडह"इति तु मत्वर्थलक्षणया बोध्यम्।