पूर्वम्: ४।२।४८
अनन्तरम्: ४।२।५०
 
सूत्रम्
खलगोरथात्॥ ४।२।४९
काशिका-वृत्तिः
खलगोरथात् ४।२।५०

खलगोरथशब्देभ्यः यः प्रत्यय भवत् तस्य समूहः इत्येतस्मिन् विषये। खलानां समूहः खल्या। गव्या। रथ्या। पाशादिष्वपाठः उत्तरार्थः।
न्यासः
खलगोरथात्। , ४।२।४९

गोशब्दादणि प्राप्ते, खलरथाब्यामचित्तलक्षणे ठकीदं वचनम्। अत्र पाशादिष्वेव खलादीनां पाठः कस्मान्न कृतः? इत्याह-- "पाशादिष्वपाठ उत्तरार्थः" इति। उत्तरसूत्र इनित्रकट()चः खलादिभ्य एव यथा स्युः, पाशादिभ्यो मा भूदिति॥
बाल-मनोरमा
खलगोरथात् १२४०, ४।२।४९

खलगोरथात्। समूह इत्येव। खल, गो, रथ एभ्यो यः स्यादित्यर्थः। खल्या गव्य रथ्येति। खलानां गवां रथानां च समूह इति विग्रहः। यद्यपि पाशिद्ष्वेव एषां पाठो युक्तस्तथापि उत्तरसूत्रे एषामेवानुवृत्त्यर्थं पृथक् पाठः।