पूर्वम्: ४।२।५४
अनन्तरम्: ४।२।५६
 
सूत्रम्
संग्रामे प्रयोजनयोद्धृभ्यः॥ ४।२।५५
काशिका-वृत्तिः
सङ्ग्रामे प्रयोजनयोद्धृभ्यः ४।२।५६

सो ऽस्य इति समर्थविभक्तिः, प्रत्ययार्थश्च अनुवर्तते। प्रथमासमर्थविशेषणं प्रयोजनं योद्धारश्च। प्रत्ययार्थविशेषनं सङ्ग्रामः। प्रयोजनवाचिभ्यः योद्धृवाचिभ्यश्च शब्देभ्यः प्रथमासमर्थेभ्यः अस्य इति षष्ठ्यर्थे सङ्ग्रामे ऽभिधेये यथाविहितं प्रत्ययो भवति। भद्रा प्रयोजनम् अस्य सङ्ग्रामस्य भद्रः सङ्ग्रामः। सौभद्रः। गौरिमित्रः। योद्धृभ्यः आहिमाला योद्धारो ऽस्य सङ्ग्रामस्य आहिमालः। स्यान्दनाश्वः। भारतः। सङ्ग्रामे इति किम्? सुभद्रा प्रयोजनम् अस्य दानस्य। प्रयोजनयोद्धृभ्यः इति किम्? सुभद्रा प्रेक्षिका ऽस्य सङ्ग्रामस्य।
न्यासः
सङ्ग्रामे प्रयोजनयोद्धृभ्यः। , ४।२।५५

अत्र "संग्रामे" इति प्रत्ययार्थ इति, सप्तम्यन्तत्वात्। "प्रयोजनयोद्धृभ्यः" इति पञ्चम्यन्तत्वात् प्रकृतिनिर्देशः, ततश्च "समर्थानां प्रथमाद्वा" ४।१।८२ इत्येतद्विरुध्यते; प्रथमस्य प्रत्ययार्थत्वेन द्वितीयस्य प्रकृतित्वेनोपादीयमानत्वादित्यस्य चोद्यस्य निरासायाह-- "सोऽस्येति समर्थविभक्तिः प्रत्ययार्थश्चानुवत्र्तते" इति। एतेनैतद्दर्शयति-- "प्रयोजनयोद्धृभ्यः" इत्येतदेवमर्थं यस्मात् पूर्वसूत्रादेव स इति प्रथमं तदिहानुवत्र्तते, तद्वशेषणं तु प्रयोजनयोद्धृभ्य इति। प्रत्ययाथोऽप्यस्येति पूर्वसूत्रादनुवत्र्तते, तद्विशेषणं संग्रामः, तत्रो नास्ति विरोधः; पूर्वसूत्रे यत् प्रथमानिर्दिष्टं तत एव प्रत्ययविधानादिति॥
बाल-मनोरमा
संग्रामे प्रयोजनयोद्धृभ्यः १२४६, ४।२।५५

संग्रामे। अनुवर्तते इति। तथाच "संग्रामे" इति सप्तम्यन्तं षष्ठ()आ विपरिणतमस्येत्यनेनान्वेति। तदस्य सङ्ग्रामस्य प्रयोजनं, तेऽस्य सह्ग्रामस्य योद्धार इत्यर्थे प्रयोजनयोद्धृवाचिभ्यः प्रतमान्तेभ्योऽणादयः स्युरित्यर्थः।

तत्त्व-बोधिनी
संग्रामे प्रयोजनयोद्धृभ्यः १०१२, ४।२।५५

संङ्ग्रामे। ननु "प्रथमा"दित्यधिकारात्प्रथमोच्चारितसङ्ग्रामवाचिन एव प्रत्ययः प्राप्नोति, न प्रयोजनयोद्धृभ्य इत्यत आह--सोऽस्येतीति। एवं च प्रथमान्तविशेषणद्वारा प्रयोजनयोद्धृणां प्रकृतित्वम्। "अस्ये"ति प्रत्ययार्थविशेषणद्वारा संग्रामस्य प्रत्ययर्थत्वं वक्तुं शक्यमिति भावः। तता चयमिह सूत्रार्थः--प्रयोजनवाचिभ्यो योद्धृवाचिभ्यश्च प्रथमान्तेभ्योऽस्येति षष्ठ()न्तार्थेऽण् स्यात्, स च षष्ठ()आन्तार्थः। संग्रामश्चेदिति।