पूर्वम्: ४।२।५
अनन्तरम्: ४।२।७
 
सूत्रम्
द्वंद्वाच्छः॥ ४।२।६
काशिका-वृत्तिः
द्वन्वाच् छः ४।२।६

नक्षत्रद्वन्द्वात् तृतीयासमर्थाद् युक्ते काले छः प्रत्ययो भवति, विशेषे च अविशेषे च। राधानुराधीया रात्रिः। तिष्यपुनर्वसवीयमहः। अविशेषे राधानुराधीयम्। अद्य तिष्यपुनर्वसवीयम्। लुपं परत्वाद् बाधते।
न्यासः
द्वन्द्वाच्छः। , ४।२।६

नक्षत्रग्रहणं यत्प्रकृतं तदिहार्थात् षष्ठ()न्तं विपरिणम्यते।तेन नक्षत्राणां यो द्वन्द्वस्तस्मात् प्रत्ययो विज्ञायत इत्याह-- "नक्षत्रद्वन्द्वात्" इति। "विशेषे चाविशेषे च" इति। अविशेषग्रहणस्य निवृत्तत्वात्। "अद्य राधानुराधीयम्" इति। ननु चाविशेषे लुपा भवितव्यम्, तत्कथं प्रत्ययस्य श्रवणमित्याह-- "लुपं परत्वाद्बाधते" इति॥
बाल-मनोरमा
द्वन्द्वाच्छः ११८९, ४।२।६

द्वन्द्वाच्छः। तिष्यपुनर्वसवीयमिति। तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू, ताभ्यां युक्तमहरिति विग्रहः। छस्य ईयादेशे ओर्गुणः। राधानुराधीयेति। रादेति विशाखानक्षत्रमुच्यते। राधा च अनूराधाश्च राधानूराधाः, तद्याक्ता रात्रिरित्यर्थः।

तत्त्व-बोधिनी
द्वन्द्वाच्छः ९८४, ४।२।६

द्वन्द्वाच्छः। विशेषे उदाहरणमाह--तिष्येत्यादि। अविशेषे तूदाहर्तव्यम् "अद्यराधानुराधीय"मिति। न चात्र "लुबविशेषे"इति अम इव छस्यापि लुप्स्यादिति वाच्यं, मध्येऽपवादन्यायरीत्या पूर्वोपस्थितस्याऽण एव तत्प्रवृत्तेः। यत्तु "लुपं परत्वाद्बाधते छ"इति वृत्तिकृतोक्तं, तन्न, द्वयोर्युपत्प्रप्त्यभावा।