पूर्वम्: ४।२।५९
अनन्तरम्: ४।२।६१
 
सूत्रम्
क्रमादिभ्यो वुन्॥ ४।२।६०
काशिका-वृत्तिः
क्रमादिभ्यो वुन् ४।२।६१

क्रम इत्येवम् आदिभ्यः शब्देभ्यः वुन् प्रत्ययो भवति तदधीते तद्वेद इत्येतस्मिन् विषये। अणो ऽपवादः। क्रमकः। पदकः। क्रम। पद। शिक्षा। मीमंसा। सामन्।
लघु-सिद्धान्त-कौमुदी
क्रमादिभ्यो वुन् १०५८, ४।२।६०

क्रमकः। पदकः। शिक्षकः। मीमांसकः॥
लघु-सिद्धान्त-कौमुदी
इति रक्ताद्यर्थकाः ३ १०५८, ४।२।६०

लघु-सिद्धान्त-कौमुदी
अथ चातुरर्थिकाः १०५८, ४।२।६०

न्यासः
क्रमादिभ्यो वुन्। , ४।२।६०

बाल-मनोरमा
क्रमादिभ्यो वुन् १२५२, ४।२।६०

क्रमादिभ्यो वुन्। "तदधीते तद्वेद इत्यर्थे" इति शेषः। क्रमक इति। क्रममधीते वेत्ति वेत्यर्थः। क्रमादिगणं पठति-क्रमेत्यादि। क्रमादिरिति। अयं क्रमादिगण इत्यर्थः। "पदकः""मीमांसकः" इत्युदाहरणानि।