सूत्रम्
सूत्राच्च कोपधात्॥ ४।२।६४
काशिका-वृत्तिः
सूत्राच् च क उपधात् ४।२।६५
सूत्रवाचिनः ककार उपधादुपन्नस्य प्रत्ययस्य लुग् भवति। अप्रोक्तार्थ आरम्भः। पाणिनीयम् अष्टकं सूत्रम्। तदधीयते अष्टकाः पाणिनीयाः। दशका वैयघ्रपदीयाः। त्रिकाः काशकृत्स्नाः। सङ्ख्याप्रकृतेरिति वक्तव्यम्। इह मा भूत्, महावार्त्तिकं सूत्रम् अधीते माहावार्त्तिकः। कालापकम् अधीते कालापकः। कोपधातिति किम्? चतुष्टयम् अधीते चातुष्टयः।
न्यासः
सूत्राच्च कोपधात्। , ४।२।६४
कोपधादिति वचनात् स्वरूपग्रहणं न भवतीत्यतः सूत्रवाचिनो ग्रहणं विज्ञायत इत्याह-- "सूत्रवाचिनः प्रतिपादिकात्" इति। "अष्टकम्" इति। अष्टावध्यायाः परिमाणमस्य। "तदस्य परिमाणम्"
५।१।५६ इत्यनुवत्र्तमाने "संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु"
५।१।५७ इति च "सख्याया अतिशदन्तायाः कन्"
५।१।२२ इति कन्।
"संख्याप्रकृतेरिति वक्तव्यम्" इति। संख्या प्कृतिर्यस्य प्रत्ययस्य स संख्याप्रकृतिः।
तदन्तात् कोपधादुत्पन्नस्य लुब्भवतीत्येतदर्थरूपं वक्तव्यम्, व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम्-- वेति वत्र्तते, सा च व्यवस्थितविभाषा, तेन संख्याप्रकृतेरेव भविष्यति, नान्यस्मादिति।
"{चातुष्टयः-- काशिका, चतुष्टयः-पदमञ्जरी।}चातुष्टयम्" इति। चत्वारोऽवयवा अस्येति "संख्याया अवयवे तयप्"
५।२।४२, "ह्यस्वात् तादौ तद्धिते"
८।३।९९ इति मूर्धन्यः, षत्वं भवति। एतत् संख्याप्रकृतिप्रत्ययान्तम्, न तु कोपधम्,
किं तर्हि? योपधम्॥
बाल-मनोरमा
सूत्राच्च कोपधात् १२५८, ४।२।६४
सूत्राच्च को। ककारोपधादित्यनन्तरं "परस्ये"ति शेषः। ननु "प्रोक्ताल्लु"गित्येव सिद्धे किमर्थमिदमित्यत आह--अप्रोक्तार्थ आरम्भ इति। अप्रोक्तार्थादपि प्रत्ययात्परस्य लुगर्थमित्यर्थः। अष्टकमिति। "तदस्य परिमाण"मित्यधिकारे "सङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु" इति "सङ्ख्याया अतिशदन्तायाः क"न्निति च सूत्ररूपेऽर्थे कन्। अष्टका इति। अष्टकशब्दाध्येतृवेदितृप्रत्ययस्य?नेन लुक्, कोपधात्सूत्रवाचिनः परत्वादिति भावः।
सह्ख्याप्रकृतिकादिति। "सूत्राच्च कोपधा"दितिलुक्सङ्ख्याप्रकृतिकप्रत्ययान्तादेव परस्य भवतीत्यर्थः। माहावार्तिक इति। महावार्तिकं नाम सूत्रम्। तदधीते वेत्ति वा माहावार्तिकः। अत्र अणो न लुक्।
तत्त्व-बोधिनी
सूत्राच्छ कोपधात् १०२२, ४।२।६४
अष्टकमिति। "सङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु"इति "सङ्ख्याया अतिशदन्तायाः कन्"।
सह्ख्याप्रकृतिकादिति वाच्यम्। सङ्ख्याप्रकृतिकीदिति। सङ्ख्याप्रकृतिकप्रत्ययन्तादित्य्रथः। कालापक इति। कलापि न्शब्दात्प्रोक्तार्थेऽण्। "सब्राहृचारी"त्युपसङ्ख्यानाट्टिलोपः। ततोऽद्येतर्यण्। तस्य "प्रोक्ताल्लु गिति लुक्। कालापानामाम्नाय इत्य्रथे "गोत्रचरणाद्वुञ्"। ततोऽध्यतृवेदित्रणो न लुक्। स्वरे स्त्रियां च विशेषः।