पूर्वम्: ४।२।६
अनन्तरम्: ४।२।८
 
सूत्रम्
दृष्टं साम (कलेर्ढक्)॥ ४।२।७
काशिका-वृत्तिः
दृष्टं साम ४।२।७

तेन इति तृतीयासमर्थाद् दृष्टं साम इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद् दृष्टं साम चेत् तद् भवति। क्रुञ्चेन दृष्तं कौञ्चं साम। वासिष्ठम्। वैश्वामित्रम्।
काशिका-वृत्तिः
कलेर् ढक् ४।२।८

कलिशब्दात् तृतीयासमर्थाद् दृष्टं साम इत्येतस्मिन्नर्थे ढक् प्रत्ययो भवति। अणो ऽपवादः। कलिना दृष्टं साम कालेयम्। सर्वत्र अग्निकलिभ्यां ढग् वक्तव्यः। अग्निना दृष्टम् आग्नेयम्। एवम् अग्नौ भवम्, अग्नेरागतम्, अग्नेः स्वम् इति सर्वत्र ढगेव भवति। आग्नेयम्। तथा कालेयम् अपि प्रतिपत्तव्यम्। दृष्टे सामनि अण् वा डिद् भवति इति वक्तव्यम्। उशनसा दृष्टं साम औशनसम्, औशनम्। जाते च अर्थे यो ऽन्येन बाधितः पुनरण् विधीयते स वा डिद् भवति इति वक्तव्यम् प्राग्दीव्यतो ऽण् प्राप्तः कालठञा बाधितः संधिवेलाद्यृतुनक्षत्रेभ्यः इति पुनर् विधियते स वा डिद् भवति इति वक्तव्यम्। शतभिषजि जातः। शातभिषजः, शातभिषः। तीयादीकक् स्वार्थे वा वक्तव्यः। द्वैतीयीकम्। तार्तीयीकम्। द्वितीयकम्। तृतीयकम्। न विद्यायः। द्वितीया, तृतीया विद्या। गोत्रादङ्कवदिष्यते। दृष्टं साम इत्येतस्मिन्नर्थे। औपगवेन दृष्टं साम औपगवकम्। कापटवकम्। गोत्रचरणाद् वुञ् भवति। दृष्टे सामनि जाते च द्विरण् डिद्वा विधीयते। तीयादीकक् न विद्याया गोत्रादङ्कवदिष्यते।
लघु-सिद्धान्त-कौमुदी
दृष्टं साम १०३९, ४।२।७

तेनेत्येव। वसिष्ठेन दृष्टं वासिष्ठं साम॥
न्यासः
कलेर्ढक्। , ४।२।७

"तीयात्" इति। द्वेस्तीयः" ५।२।५३ इति तीयः। "त्रेः सम्प्रसारणञ्च" (५।२।५५) इति तीयं वक्ष्यति, तदन्तात् स्वार्थ ईकग्वक्तव्यः। "न विद्यायाः"इति। विद्याया अभिधाने तीयादीकग्न भवति। "गोत्रादह्कवत्" इति। यथा तस्याङ्क इत्यत्रार्थे विवनक्षिते गोत्रात् प्रत्ययो भवति, "तेन दृष्टं साम" ४।२।७ इत्यत्रार्थे विवक्षिते तथैवेष्यते। "औपवेन दृष्टं साम" इति। औपगवशब्दः "तस्यापत्यम्" ४।१।९२ इतिगोत्रप्रत्ययान्तः। "गोत्रचरणाद्()वुञ् भवति" इति। यथौपगवस्यायमङ्क औपगवक इत्यौपगवशब्दाद्()गोत्रप्रत्ययान्तादङ्के वुञ्भवति, तथा "तेन दृष्टं साम" इत्यत्रापि। ननु च "गोत्रचरणाद्()वुञ्" ४।३।१२६ इत्यत्र नाङ्कार्थ उपात्तः, तत्कथमनेनाह्कवदित्युच्यमाने वुञ् बवति? नैष दोषः; तत्राङ्कवदित्यनेन विहितस्येदमर्थो विवक्ष्यते। "तेन गोत्रप्रत्ययान्ताद्यथा "तस्येदम्" ४।३।१२० इत्यत्रार्थे प्रत्यय इष्यते, तथा तेन दृष्टं साम" इतत्यत्रापीत्यर्थः। "दृष्टे सामनि" इति सङ्ग्रहः।गतार्थः॥
बाल-मनोरमा
दृष्टं साम ११९०, ४।२।७

दृष्टं साम। तेनेत्येवेति। अनुवर्तत एवेत्यर्थः। तेन दृष्टं सामेत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः।

अस्मिन्नर्थे इति। "दृष्टं साम" इत्यर्थे यः अण् स डिद्वेत्यर्थः। औशनमिति। अमि टिलोपपक्षे रूपम्।

बाल-मनोरमा
कलेर्ढक् ११९१, ४।२।७

कलेर्ढक्। वार्त्तिकमिदम्।

तत्त्व-बोधिनी
दृष्टं साम ९८५, ४।२।७

दृष्टं साम। तृतीयान्ताद्दृष्टमित्यर्थेऽणादयः स्युर्युद्दृष्टं त्चेचत्साम।

अस्मिन्नर्थेऽण् डिद्वा वक्तव्यः। अस्मिन्नर्थे इति तथा च श्र्लोकवार्तिकं--"दृष्टे सामनि जाते वाप्यण् डिद् द्विर्वा विधीयते। तीयैदीकक् न विद्याया गोत्रादङ्कवदिष्यते। "इति। जातेऽर्थे यो द्विरण् स च वा डिदित्यन्वयः। शतभिषजि जातः शातभिषः, शातभिषझः। इह हि "प्राग्दीव्यतः"इति प्राप्तोऽण् कालाट्ठञा बाधितः, स च "सन्धिवेलादि"सूत्रेण प्रतिप्रसूयते इत्ययं द्विरुक्तोऽम्। तीयादिति। तीयादिकक् स्वार्थे भवतीत्यर्थः। द्वैतीयीकः। तार्तीयीकः। न विद्याया इति। विद्यावाचकात्तीयान्तादीकङ्न भवतीत्यर्थः। द्वितीया विद्या। गोत्रादङ्कवदिति। गोत्रप्रत्ययान्तादङ्के यः प्रत्ययः स दृष्टे सामन्यपि भवति। औपगवेन दृष्टपगवकम्। इह "गोत्रचरणाद्वु"ञिति वुञ्।