पूर्वम्: ४।२।७९
अनन्तरम्: ४।२।८१
 
सूत्रम्
जनपदे लुप्॥ ४।२।८०
काशिका-वृत्तिः
जनपदे लुप् ४।२।८१

देशे तन्नाम्नि यश्चातुरर्थिकः प्रत्ययः भवति, तस्य देशविशेषे अनपदे ऽभिधेये लुब् भवति। ग्रामसमुदायो जनपदः। पञ्चालानां निवासो जनपदः पञ्चालाः। कुरवः। मत्स्याः। अङ्गाः। बङ्ङाः। मगधाः। सुह्माः। पुण्ड्राः। इह कस्मान् न भवति, उदुम्बराः अस्मिन् सन्ति औदुम्बरो जनपदः, वैदिशो जनपदः इति? तन्नाम्नि इति वर्तते। न च अत्र लुबन्तं तन्नामधेयं भवति।
न्यासः
जनपदे लुप्। , ४।२।८०

बाल-मनोरमा
जनपदे लुप् १२७४, ४।२।८०

जनपदे लुप्। चातुरर्थिकस्येति। प्रकरणलभ्यमिदम्।

तत्त्व-बोधिनी
जनपदे लुप् १०३०, ४।२।८०

जनपदे लुप्। तन्नाम्नीत्येव। नेह--उदुम्बराः सन्त्यास्मिन्नौदुम्बरो जनपदः। न ह्रत्र लुबन्तं नामधेयम्। जनपदस्यैकत्वादेकवचने प्राप्ते बहुवचनादिफलकमतिदेशमाह--।