पूर्वम्: ४।२।८१
अनन्तरम्: ४।२।८३
 
सूत्रम्
शर्कराया वा॥ ४।२।८२
काशिका-वृत्तिः
शर्कराया वा ४।२।८३

शर्कराशब्दादुत्पन्नस्य चातुरर्थिकस्य प्रत्ययस्य वा लुब् भवति। वाग्रहणं किम्, यावता शर्कराशब्दः कुमुदादिषु वराहादिषु च पठ्यते, तत्र पाठसमर्थ्यात् प्रत्ययस्य पक्षे श्रवणं भविष्यति? एवं तर्ह्येतज् ज्ञापयति, शर्कराशब्दादौत्सर्गिको भवति, तस्य अयं विकल्पितो लुपिति। शर्करा। शार्करम्। गणपाठाच् च श्रवणम् उत्तरसूत्रे विहितौ च द्वौ प्रत्ययौ, तदेवं षड् रूपाणि भवन्ति। शर्करा, शार्करम्, शर्करिकम्, शार्करकम् , शार्करिकम्, शर्करीयम् इति।
न्यासः
शर्कराया वा। , ४।२।८२

"पाठसामथ्र्यात्ित्यादि। यदि नित्यो लुप् स्यात्, गणयोरस्य पाठोऽनर्थकः स्यात्। तस्मात् पाठसमाथ्र्यादेव पक्षे श्रवणं भविष्यतीत्यत आह। "एवं तर्हि" इत्यादिना वाघणस्य ज्ञापकं दर्शयति। "शर्करा" इति। औत्सर्गिकस्य लुप्। "शार्करम्" इति। त्स्यैव पक्षे श्रवणम्। "शर्करकम्" इति। कुमुदादित्वाट्ठच्। "शार्करकम्" इति। वराहादित्वात् कक्। शार्करिकम्, शर्करीयम्" इति। उत्तरसूत्रेण ठक्छौ॥
बाल-मनोरमा
शर्कराया वा १२८३, ४।२।८२

शर्कराया वा। "लु"बित्यनुवर्तते। प्रत्यासत्त्या चातुरर्थिकस्येति लभ्यते। तदाह--अस्मादिति।