पूर्वम्: ४।२।८३
अनन्तरम्: ४।२।८५
 
सूत्रम्
नद्यां मतुप्॥ ४।२।८४
काशिका-वृत्तिः
नद्यां मतुप् ४।२।८५

नद्याम् अभिधेयायां मतुप् प्रत्ययो भवति चातुरर्थिकः। तन्नाम्नो देशस्य विशेषणं नदी। उदुम्बरा यस्यां सन्ति उदुम्बरवती। मशकावती। वीरणावती। पुष्करावति। इक्षुमती। द्रुमती। इह कस्मान् न भवति, भागीरथी, भैमरथी? मतुबन्तस्य अतन्नामधेयत्वात्।
न्यासः
नद्यां मतुप्। , ४।२।८४

"उदुम्बरावती"इति। "मतौ बह्वजोऽनजिरादीनाम्" ६।३।११८ इति दीर्घः॥
बाल-मनोरमा
नद्यां मतुप् १२८५, ४।२।८४

नद्यां मतुप्। चातुरर्थिक इति। शेषपूरणम्। इक्षमतीति। मतुपि उपावितौ। इक्षवः सन्त्यस्मिन् इत्यर्थः।