पूर्वम्: ४।२।८६
अनन्तरम्: ४।२।८८
 
सूत्रम्
नडशादाड्ड्वलच्॥ ४।२।८७
काशिका-वृत्तिः
नडशादाड् ड्वलच् ४।२।८८

नडशादशब्दाभ्यां ड्वलच् प्रत्ययो भवति चातुरर्थिकः। यथासम्भवम् अर्थसम्बन्धः। नड्वलम्। शाद्वलम्।
लघु-सिद्धान्त-कौमुदी
नडशादाड्ड्वलच् १०६९, ४।२।८७

नड्वलः। शाद्वलः॥
न्यासः
नडशादाड्ड्वलच्। , ४।२।८७

बाल-मनोरमा
नडशादाड्ड्वलच् १२८८, ४।२।८७

नडशादाड्ड्वलच्। नड्वल इति। डित्त्वाट्टिलोपः। शाद्वल इति। शादा अस्मिन्सन्तीति विग्रहः। शादो--दन्त्योपधः। डोपध इत्यन्ये। "नडप्राये नड्वान्नड्वल इत्यपी"त्यमरः। "शाद्वलः शादहरिते" इति च।