पूर्वम्: ४।२।९१
अनन्तरम्: ४।२।९३
 
सूत्रम्
राष्ट्रावारपाराद्घखौ॥ ४।२।९२
काशिका-वृत्तिः
राष्ट्रावारपाराद् घखौ ४।२।९३

राष्ट्रियः। अवारपारीणः। शेषे इति लक्षणं च अधिकारश्च। चक्षुषा गृह्यते चाक्षुषं रूपम्। श्रावणः शब्दः। दृषदि पिष्टाः दार्षदाः सक्तवः। उलूखले क्षुण्णः औलूखलो यावकः। अश्वैरुह्यते आश्वो रथः। चतुर्भिरुह्यते चातुरं शकटम्। चतुर्दश्यां दृश्यते चातुर्दशं रक्षः इति।
लघु-सिद्धान्त-कौमुदी
राष्ट्रावारपाराद्घखौ १०७२, ४।२।९२

आभ्यां क्रमाद् घखौ स्तः शेषे। राष्ट्रे जातादिः राष्ट्रियः। अवारपारीणः। (अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम्)। अवारीणः। पारीणः। पारावारीणः। इह प्रकृतिविशेषाद् घादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोर्ऽथविशेषाः समर्थ विभक्तयश्च वक्ष्यन्ते॥
न्यासः
राष्ट्रावारपाराद्घखौ। , ४।२।९२

राष्ट्रशब्दात् "वृद्धाच्छः"४।२।११३ इति च्छे प्राप्ते।अवारपारशब्दादणि घखौ विधीयेते। अवारस्य पारमवारपारमिति षष्ठीसमासः। राजदन्तादिषु दर्शनात् पारावारमित्यपि पक्षे भवति। विगृहीताद्विपरीताच्च लभ्यते। वक्तव्यमेवैतत्। अथ वा-- एकशेषो विज्ञास्यते, तत्रैकः समुदायारेथः, अपरोऽवयवार्थो भविष्यति। विपरीतस्यापि "एकार्थानां विरूपाणाम्" (१।२।६४।वा।२३) इत्येकशेषो न विरुध्यते, था-- वक्रदण्डश्च कुटिलदण्डश्च कुटिलदण्डाविति, यथा च यङ्लुकाविति। ननु च तस्यैवं प्रकृतयो भवन्ति, पञ्च राष्ट्रादिशब्दाः,प्रत्ययौ तु द्वौ-- इति वैषम्यात् संख्यातानुदेशो न सिध्यति? नैष दोषः;निर्देशापेक्षं हि यथासंख्यत्वम्। निर्देशश्च द्वयोरेव तदपेक्षया प्रकृते यथासंख्यत्वम्। एवं पञ्चाद्यभेद उपजायते, न स यथासंख्यं बाधते। यथा वुञादीनाञ्च गणापेक्षया यथासंख्यं प्रवृत्ते तु यथासंख्येन प्रत्ययोत्पत्तिवेलायां गणेषु यद्यपि प्रातिपदिकरूपाण्यसमसंख्यानि भवन्ति, तथात्रापि यथासंख्यं न हीयते। कुतः पुनरवगतम्-- एकशेषोऽयमिति? व्याख्यानात्। "प्रकृतिविशेषोपादानमात्रेण" इति। मात्रशब्दो जाताद्यर्थविभक्तिनिर्देशस्य च व्यवच्छेदाय॥
बाल-मनोरमा
राष्ट्राऽवारपाराद्ध्खौ १२९४, ४।२।९२

राष्ट्रावारपाराद्धखौ। आभ्यामिति। राष्ट्रशब्दादवारपारशब्दाच्चेत्यर्थः। राष्ट्रिय इति। राष्ट्रे जातः भव इत्यादिरर्थो यथायथं बोध्यः। धस्य इयः। अवारपारीण इति। खस्य ईनादेशः, णत्वम्।

अवारपारादविगृहीतादपीति। अवारशब्दात्पारशब्दाच्च पृथग्भूतदादपि खो वक्तव्य इत्यर्थः। विपरीताच्चेति। पाराऽवारशब्दादपीत्यर्थः। ननु "सार्ष्टावारपारे"त्यरभ्य "विभाषा पूर्वाह्णाऽपराह्णाभ्या"मित्यन्तैः सूत्रै राष्ट्रादिशब्देभ्यः प्रकृतिभ्यः शेषेऽर्थे प्रत्यया विहिताः। तस्यापत्यमित्यादिवदर्थविशेषास्तु न निर्दिश्यन्ते, यत्किञ्चिद्विभक्त्यन्तेभ्यो राष्ट्रादिप्रकृतिविशेषेभ्यो घादयः ट()उट()उलन्ताः प्रत्ययाः स्युः, "समर्थानां प्रथमाद्वे"त्थस्यानुपस्थित्या प्रथमोच्चारितविभक्तिविशेषानुपस्थितेः। किंच "तत्र जातः" इत्यादिसूत्रेषूत्तरेषु अर्थविशेषा एव निर्दिष्टाः। तत्र प्रथमोच्चारितसप्तम्यन्तादितत्तद्विभक्त्यन्तेभ्यः सर्वेभ्यः साधारणा अणादय एव स्युः। तत्राह--इह प्रकृतीत्यादिना। "राष्ट्रावारे"त्यादिसूत्राणां प्रकृतिविशेषेभ्यः केवलप्रत्ययविधीनामर्थविशेषविभक्तिविशेषाकाङ्क्षायां, "तत्र जातः" इत्यादि सूत्राणां च केवलमर्थविशेषनिर्देशपराणां "समर्थाना"मिति सूत्रलब्धतत्तद्विभक्तिकप्रकृतिविशेषाणां विधेयप्रत्ययविशेषाकाङ्क्षायां परस्परमेकवाक्यत्वे सति तत्र जात इत्याद्यर्थेषु प्रथमोच्चारिततत्तद्विभक्त्यन्तेभ्यो राष्ट्रादिशब्देभ्यो घादयः ठ्युठ्युलन्ताः प्रत्ययाः स्युरिति लभ्यत इति भावः। राष्ट्राद्यन्याभ्यस्तु प्रकृतिभ्यो जाताद्यर्थेषु अणादयः साधारणा भवन्त्येव।