पूर्वम्: ४।२।९४
अनन्तरम्: ४।२।९६
 
सूत्रम्
कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु॥ ४।२।९५
काशिका-वृत्तिः
कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु ४।२।९६

कुलकुक्षिग्रीवाशब्देभ्यो यथासङ्ख्यं श्वनसि अलङ्कार इत्येतेषु जतादिष्वर्थेषु ढकञ् प्रत्ययो भवति। कौलेयको भवति श्वा चेत्। कौलो ऽन्यः। कौक्षेयको भवति असिश्चेत्। कौक्षो ऽन्यः। ग्रैवेयको भवति अलङ्कारश्चेत्। ग्रैवो ऽन्यः।
न्यासः
कुलकुक्षिग्रीवाभ्यः �आआस्यलङ्कारेषु। , ४।२।९५

"अणोऽपवादो योगः॥
बाल-मनोरमा
कुलकुक्षिग्रीवाभ्यः �आआऽ‌ऽस्यलङ्कारेषु १२९७, ४।२।९५

कुलकुक्षि। कुलाच्छुनि, कुक्षेः असौ , ग्रीवाया अलंकारे ढकञित्यर्थः। कौलेयकः। ()ओति। कुले जातादिरिति विग्रहः। कौक्षेयकोऽसिरिति। कुक्षौ=कोशे भवः खङ्ग इत्यर्थः। ग्रैवेयक इति। ग्रीवासु भव इति विग्रहः।

तत्त्व-बोधिनी
कुलकुक्षिग्रीवाभ्यः �आआऽ‌ऽस्यलङ्कारेषु १०४०, ४।२।९५

कुल्याया यलोपश्चे "ति गण सूत्रम्। कुल्यायां जातः--कौलेयकः। कत्त्रि, उम्भि, कुण्डिन, माहिष्मतीत्यादि।