पूर्वम्: ४।२।१४४
अनन्तरम्: ४।३।२
 
सूत्रम्
युष्मदस्मदोरन्यतरस्यां खञ् च॥ ४।३।१
काशिका-वृत्तिः
युष्मदस्मदोरन्यतरस्यां खञ् च ४।३।१

देशाधिकारो निवृत्तः। युष्मदस्मदोः खञ् प्रत्ययो भवति शैषिकः। चकाराच् छः च। अन्यतरस्यांग्रहणाद् यथाप्राप्तम्। तदेते त्रयः प्रत्ययाः भवन्ति, तत्र वैषम्याद् यथासङ्ख्यं न भवति। त्यदादित्वाद् वृद्धसंज्ञकयोर् युष्मदस्मदोः छे प्राप्ते प्रत्येकं प्रत्ययत्रयं विधीयते। यौष्माकीणः। आस्माकीनः। युष्मदीयः। अस्मदीयः। यौष्माकः। आस्माकः।
लघु-सिद्धान्त-कौमुदी
युष्मदस्मदोरन्यतरस्यां खञ् च १०८२, ४।३।१

चाच्छः। पक्षेऽण्। युवयोर्युष्माकं युष्मदीयः, अस्मदीयः॥
न्यासः
युष्मदस्मदोरन्यतरस्यां खञ्च। , ४।३।१

"तत्र वषम्याद्यथासंख्यं न भवति" इति। द्वे हि प्रकृती, प्रत्ययाश्च त्रय इति वैषम्यम्। ननु च?ञ्छावेवानेन विधीयेते, अण्प्रत्ययस्त्वन्यतरस्यांग्रहणेन यथाप्राप्तस्याभ्यनुज्ञाने कृते शास्त्रादेव भवति, तत्कृतो वैषम्यम्? छोऽपि तर्हि तेनैवानेन विधीयते, तस्यापि हि चकारोऽभ्यनुज्ञापक एव। सोऽपि स्वशास्त्रादेव "वृद्धाच्छःट (४।२।११४) इत्येतस्माद्भवतीति? एवमपि वैषम्यम्। सर्वथा नास्ति यथासंख्यप्रसङ्ग॥
बाल-मनोरमा
युष्मदस्मदोरन्यतरस्यां खञ्च १३५०, ४।३।१

युष्मदीय इति। द्विवचनान्दाद्बहुवचनान्ताच्च छः। ईयादेशः। सुब्लुकि युवादेशस्य निवृत्तिः, तस्य विभक्तौ परे विधानात्। प्रकृत्यर्थैकत्वे विभक्तेर्लुप्तत्वेऽपि त्वादेशो वक्ष्यते। अस्मदीय इति। आवयोरस्माकं वा अयमित्यर्थः।

तत्त्व-बोधिनी
युष्मदस्मदोरन्यतरस्यां खञ्च १०६६, ४।३।१

युष्मदस्मदोः। "त्यदादीनि चे"ति वृद्धत्वान्नित्ये छे प्राप्ते खञणोरपि विधानार्थमिदजम्। पक्षे अणिति। अन्यतरस्याङ्ग्रहणादिति भावः। तथा चैते त्रयः प्रत्यया इति वैषम्याद्यथासङ्ख्यं न भवतीति केचित्। मनोरमायां तु यथासङ्ख्यनिवारणाया योगविभागः कृतः। तथा हि "युष्मदस्मदोरन्यतरस्याम्" आभ्यां छो वा स्यात्। "त्यदिदीनि चे"ति वृद्धत्वान्नित्ये छे प्राप्ते विकल्पोऽयम्। ततः "खञ्च"। एवमुत्तरसूत्रेऽपि योगविभागो बोध्यः। तेन आदेशयोः खञणभ्यां यथासङ्ख्यं नेत्यादि। युवयोरित्यादि। एकवचने तवकममकादेशविधानादेकवचनान्तेन विग्रहोऽत्र न कृतः।